कर्तव्यं श्रद्धया भक्त्या एवं तुष्यति भास्करः
आदित्यं पूजयित्वा तु पश्चादंगानि पूजयेत्
दिग्विदिक्षु न्यसेदस्त्रमिंद्रादि दिशोत्तरांतिकम्
पुष्पैर्गंधैश्च धूपैश्च हृदयानि क्रमेण तु
बाह्यतः पूर्वतो मंदं दक्षिणेन बुधं तथा
आग्नेय्यां च कुजं पूज्य नैर्ऋत्यां भानुदेहजम्
इन्द्रादिलोकपालांश्च ततोऽष्टौ पूजयेद्बुधः
क्रमेण पूजयेद्भानुं लोकपालैर्ग्रहैः सह
अनेन विधिना यत्र देवः संपूज्यते रविः
वर्षोपलविषादिभ्यो भयं तत्र न विद्यते
तेजोबिंबांतमध्यस्थ आदित्यः परमार्थतः
इत्येष विधिराख्यातो मया भीष्म तवाखिलः
इत्थं पूज्य विवस्वन्तं हृद्बीजेन विसर्जयेत्
सूर्यपूजामाहात्म्यवर्णनम् रूपवर्ण समं चैव पौराणिकमनुत्तमम्
पौराणिकानां मंत्राणामुद्धारं वैदिकादृते
वर्णरेफसमायुक्तं विद्रुमेनैव भूषितम्
बिंदुरेफसमायुक्तं दीर्घया मात्रया तथा
तृतीयं तु तथा प्रोक्तं सविसर्गं जनाधिप
भास्करोयं महान्साक्षान्मंत्रमूर्तिस्त्रिरक्षरः
यस्त्विदं जपते भक्त्या स याति परमां गतिम्
पद्माकारौ करौ कृत्वा मध्ये श्लिष्टे तु मध्यमे
अनया बद्धया राजन्भास्करस्य प्रियो भवेत्
हृदयं तस्य विज्ञेयं यदक्षरवरं स्मृतम्
शिरस्यर्कमिति प्रोक्तं देवदेवस्य भारत
अष्टाक्षरा तु विद्येयमादित्यस्य महात्मनः
अकारेण समायुक्तं बिंदुरेफसमन्वितम्
एकाक्षरमिदं प्रोक्तमभेद्यं यः स्मरेदिदम्
सविसर्गो रेफ इति अस्त्रमेकाक्षरं स्मृतम्
संमुखौ तौ करौ कृत्वा श्लिष्टौ तु ग्रथितांगुली
हृच्छिरः सशिखा चर्मा मुद्रेयं व्योमसंज्ञिता