पात्रमौदुम्बरं गृह्य कृत्स्नं सूर्यस्य दर्शयेत्
हंसः शुचिषदिति पाद्यं दद्याद्विचक्षणः
अग्निस्तु सप्तभिर्वीर कीर्तितास्ताश्च कृत्स्नशः
हिरण्यवर्णेति क्रमाच्चतुर्भिश्च नराधिप
भानोः प्रदक्षिणं कृत्वा कृणुष्वपाज इत्यपि
पतिमिंद्रस्तवाचाम द्वितीया परिकीर्तिता
सिध्ये वृत्राणि जिघ्ने शगंधैर्भानुं प्रपूजयेत्
सप्त युंजंति रथमनया पूजयेद्रविम्
को ददर्श प्रथम मनया धूपमादिशेत्
उद्दीप्यस्येत्यनया दीपं दद्याद्विभावसोः
युक्ता मातासीत्यनया नैवेद्यं प्रतिपादयेत्
तस्याः समुद्रेत्यनया उपवीतं निवेदयेत्
ऋग्भिर्वै पंचभिस्तात शृणु चैकमनादृतः
चत्वारि वागिति भवेद्द्वितीया परिकीर्तिता
कृष्णं नियानं हि तथा चतुर्थी परिकीर्तिता
गतेहनामित्यनया अव्यंगं भास्करं न्यसेत्
कृत्वा पूजां ततश्चर्ग्भिरष्टाभिरिति चाच्युत
इत्येष ते मयाख्यातः प्रतिमापूजने विधिः
अनेन विधिना यस्तु सततं पूजयेद्रविम्
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम्
निष्कामः पूजयेद्यस्तु स मोक्षं प्राप्नुयान्नरः
ब्रह्मादयस्तथा देवं पूजयित्वा विभावसुम्
महादेवार्चनविधिवर्णनम् येन पूजयते नित्यं महादेवं दिवा करम्
प्रभूतं निर्मलं तेज आराध्य परमं सुखम्
क्रमेण यावदीशानं हृदि बीजं च विन्यसेत्
उपरिष्टात्ततस्तस्य हृदयेन तु पंकजम्
दीप्तादि पूर्वमारभ्य आमहादेवगोचरम्
अबीजैः केसराग्रेषु क्रमेणैव च पूजयेत्
तस्योपहृत्य तं चान्यं वेदितव्यं खपुष्करम्
पाद्यमाचमनं स्थानं वस्त्रगंधादिभूषणम्