तस्या मूर्च्छा तदा क्षीणा द्वितीयाया अजायत
प्रभाते सुंदरे जाते स ताभिर्गृहमाययौ आसां मध्ये महाराज का श्रेष्ठा सुकुमारिका
वायुप्रकृतितश्चासौ पद्मपुष्पेण खंजिता
शीतांशुना द्वितीया तु मूर्च्छिता कफभावतः
विहस्याह पुनर्देवो भवभक्तं महीपतिम्
स होवाच प्रधानोऽसौ वेदधर्मः सनातनः 3.2.10.
शूद्रो वैश्यस्तथा क्षत्री ब्राह्मणो ब्रह्मचर्यकृत्
यः कृत्वा दारसंसर्गं यतिवद्वर्तते गृही
गृहेषु यतिवद्धर्मो जैनशास्त्रे प्रकीर्तितः
राजानमब्रवीद्गाथां धर्मप्रश्नमयीं शुभाम्
राजन्पुण्यपुरे रम्ये नानाजननिषेविते
सत्यप्रकाशस्तन्मंत्री लक्ष्मीश्चामात्यकामिनी
आनंदः कतिधा लोके तन्ममाचक्ष्व सत्तम
ब्रह्मचर्याश्रमे यो वै ब्रह्मानंदो महोत्तमः
वानप्रस्थे महाराज स धर्मानंदकोऽधमः
संन्यस्ते तु शिवानंदस्स हि सर्वोत्तमोत्तमः
स्त्रियं विना सुखं नास्ति गृहस्थाश्रमके नृप
पत्नीमन्वेषयामास स्वयोग्यां धर्मतत्पराम्
स भूपो मंत्रिणं प्राह नारीमन्वेषयाद्य भोः 3.2.11.
इति श्रुत्वा ययौ मंत्री देशाद्देशांतरं प्रति तुष्टाव मनसा सिंधुं सर्वतीर्थपतिं शुभम्
अहं ते शरणं प्राप्तः शरणागतवत्सल
स्त्रीरत्नं देहि राज्ञोऽर्थे नो चेत्प्राणांस्त्यजाम्यहम्
जले वृक्षं सुवर्णांगं पत्रविद्रुमकं महत्
तस्योपरि स्थिता बाला सुकुमारी मनोरमा
इति दृष्ट्वा महाश्चर्यं नृपांतिकमुपाययौ
तथाविधं नृपो दृष्ट्वा सागरांतमुपाययौ
तां नारीं प्राह नम्रात्मा त्वदर्थेऽहं समागतः
विहस्य साऽऽह तं भूपं कृष्णपक्षे चतुर्दशी 3.2.11.
इति श्रुत्वा स नृपतिस्तद्दिने स्मरविह्वलः
एतस्मिन्नंतरे तत्र राक्षसो बकवाहनः