युञ्जानीति च मंत्रेण भानुं रोचनयार्चयेत्
सहस्रशीर्षा पुरुषो रविं सरसि पूजयेत्
विश्वतश्चक्षुरित्येवं भानोर्देहं समालभेत्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्म आदित्यपूजाविधिवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः
भास्कराराधनविधिवर्णनम् व्योमपूजाविधिं ब्रूहि समासाच्चतुरानन
अष्टशृंगं यथा व्योम पूजयंति मनीषिणः
सौवर्णं राजतं ताम्रं कृत्वा चाश्ममयं तथा
प्रथमं पूजयेद्भानुं मध्ये मंत्रेण सुव्रत
त्रातारमिंद्रं मंत्रेण सर्वशृंगं सदार्चयेत्
आयं गौरिति मन्त्रेण नैर्ऋ(कृ)तं शृंगमर्चयेत्
इन्द्रसोमांतपतये ह्यथ वानेन पूजयेत्
एवं भानुं च परितः पूजयंति सदाच्युत
नमोऽस्तु सर्वपापेभ्यो व्योमपीठं सदार्चयेत्
त्वमेको रुद्राणां वसूनां पूर्वाह्णे तेन पूजयेत्
एवं भानुं ग्रहैः सार्धं पूजयंति सदस्पते
विमले वाससी दत्त्वा गुरवे सपवित्रके
गन्धपुष्पाणि चित्राणि भक्ष्यभोज्यान्यनेकशः बहुपुत्रो बहुधनः स नरो भव्यवान्भवेत्
उत्तरे चायने यस्तु सोपवासोर्चयेद्रविम्
कृत्वोपवासं विषुवे यस्तु पूजयते रविम्
कृत्वोपवासं ग्रहणे विधिवच्चंद्रसूर्ययोः
इति ते कथितो विष्णो भास्कराराधने विधिः
पुनरेत्य महीं कृष्ण राजा भवति भूतले
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे भास्कराराधनविधिवर्णनं नाम त्र्यधि कद्विशततमोऽध्यायः
व्योमार्चनविधिवर्णनम् रत्नव्योमप्रतिष्ठायां यथा भानुं प्रपूजयेत्
अर्चयित्वा तु प्रकृतिं गंधपुष्पाक्षतैर्विभो
आवाहयेन्महादेवं खषोल्कं भास्करं विभुम्
ॐ खषोल्कमावाहयामि ॐ भूर्भुवः स्वरों आदित्याराधने मन्त्रः
अभिमन्त्र्य भुवे मात्रं सावित्र्या च ऋचा विभो
यथान्यायं तु संक्षाल्य पूरयेच्चान्यतो यतः
सविता पश्चातात्सविता ह्यनया पूरयेद्बुधः