हिरण्यगर्भः समवर्तता षष्ठं बीजं प्रकीर्तितम्
एवं बीजानि विन्यस्य आदित्यं स्थापयेद्द्विजः
बाह्यतो देवशार्दूल इन्द्रादीनां समंततः
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम्
वर्तुलं तेन बिंबेन मध्यस्थमतितेजसम्
ध्यात्वा संपूजयेन्नित्यं स्थंडिलं मंडलाश्रितम्
आदित्यपूजाविधिवर्णनम् विष्णुरुवाच मण्डलस्थं सुरश्रेष्ठ विधिना येन भास्करम्
पूजयेद्विधिना येन भास्करं पद्मसंभवम्
साधु कृष्ण महाबाहो साधु पृष्टोऽस्मि सुव्रत
इषे त्वेति च मन्त्रेण उत्तमांगं सदार्चयेत्
अग्न आयाहि मन्त्रेण पादौ देवस्य पूजयेत्
योगयोगति मंत्रेण मुक्तपुष्पांजलिं क्षिपेत्
इमं मे गंगेति यत्प्रोक्तमनेनापि च भूधर
स्नापयेत्पयसा कृष्ण आप्यायस्वेति मन्त्रतः
तेजोऽसि शुक्रमिति च घृतेन स्नपनं परम्
उद्वर्तयेत्ततो द्विपदाभिः सुराधिप
विष्णोरराटमन्त्रेण स्नापयेद्गन्धवारिणा
इदं विष्णुर्विचक्रमे मंत्रेणार्घ्यं प्रदापयेत्
बृहस्पतेति मन्त्रेण दद्याद्वस्त्राणि भानवे
धूरसीति च मन्त्रेण धूपं दद्यात्सगुग्गुलम्
युञ्जानीति च मंत्रेण भानुं रोचनयार्चयेत्
सहस्रशीर्षा पुरुषो रविं सरसि पूजयेत्
विश्वतश्चक्षुरित्येवं भानोर्देहं समालभेत्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्म आदित्यपूजाविधिवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः
भास्कराराधनविधिवर्णनम् व्योमपूजाविधिं ब्रूहि समासाच्चतुरानन
अष्टशृंगं यथा व्योम पूजयंति मनीषिणः
सौवर्णं राजतं ताम्रं कृत्वा चाश्ममयं तथा
प्रथमं पूजयेद्भानुं मध्ये मंत्रेण सुव्रत
त्रातारमिंद्रं मंत्रेण सर्वशृंगं सदार्चयेत्
आयं गौरिति मन्त्रेण नैर्ऋ(कृ)तं शृंगमर्चयेत्