तत आवाहयेद्भानुं स्थापयेत्कर्णिकोपरि
उदुत्यं जातवेदसमिति मंत्रः प्रकीर्तितः
आकृष्णेन रजसा मंत्रेणानेन चार्चयेत्
अपप्तेतारकं देवीदीप्तानेन प्रपूजयेत्
तरणिर्विश्वदर्शेति अनेन सततं जयम्
विभूतिमर्चयेन्नित्यं येनापावकचक्षसा
अमोघां पूजयेन्नित्यं मंत्रेणानेन सुव्रत
मंत्रेणानेन कृष्णस्य उद्वयंतमितीह च
द्वितीयं पूजयेत्कृष्णं शुक्लेषु हरिमाहवे 1.201.
तत्सवितुर्वरेण्येति चतुर्थं परिकीर्तितम्
हिरण्यगर्भः समवर्तता षष्ठं बीजं प्रकीर्तितम्
एवं बीजानि विन्यस्य आदित्यं स्थापयेद्द्विजः
बाह्यतो देवशार्दूल इन्द्रादीनां समंततः
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम्
वर्तुलं तेन बिंबेन मध्यस्थमतितेजसम्
ध्यात्वा संपूजयेन्नित्यं स्थंडिलं मंडलाश्रितम्
आदित्यपूजाविधिवर्णनम् विष्णुरुवाच मण्डलस्थं सुरश्रेष्ठ विधिना येन भास्करम्
पूजयेद्विधिना येन भास्करं पद्मसंभवम्
साधु कृष्ण महाबाहो साधु पृष्टोऽस्मि सुव्रत
इषे त्वेति च मन्त्रेण उत्तमांगं सदार्चयेत्
अग्न आयाहि मन्त्रेण पादौ देवस्य पूजयेत्
योगयोगति मंत्रेण मुक्तपुष्पांजलिं क्षिपेत्
इमं मे गंगेति यत्प्रोक्तमनेनापि च भूधर
स्नापयेत्पयसा कृष्ण आप्यायस्वेति मन्त्रतः
तेजोऽसि शुक्रमिति च घृतेन स्नपनं परम्
उद्वर्तयेत्ततो द्विपदाभिः सुराधिप
विष्णोरराटमन्त्रेण स्नापयेद्गन्धवारिणा
इदं विष्णुर्विचक्रमे मंत्रेणार्घ्यं प्रदापयेत्
बृहस्पतेति मन्त्रेण दद्याद्वस्त्राणि भानवे
धूरसीति च मन्त्रेण धूपं दद्यात्सगुग्गुलम्