एतेषां समयाश्चैव कवचं परिकथ्यते
एवमंगानि विन्यस्य नासौ केनापि बाद्ध्यते
आत्मानं भास्करं ज्ञात्वा यथोक्तं तत्त्वदर्शिभिः
कृत्वा तु दक्षिणे पार्श्वे दिव्यपुष्पकरंडकम्
अस्त्रेण क्षालितां पूर्णां शेषं मंत्रैर्जलैस्तथा
स्थंडिले चैव द्रव्याणि पूजार्थं कल्पितानि तु ततो मंत्रं जपेत्पश्चादेकचित्तेन मंत्रवित्
स मया विदितः कृत्स्नः कथितो नैकशो द्विजैः
तथा मे ब्रूहि सकलं वैदिकं विधिसत्तमम्
इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे सौरधर्मे द्विशततमोऽध्यायः
सूर्यमण्डलदेवतार्चनविधिवर्णनम् अथ त्वां कथयिष्येहं संवादं धर्मवर्द्धनम्
मनोवत्यां सुरज्येष्ठं सुखासीनं चतुर्मुखम्
आराधनविधिं ब्रूहि भास्करस्य महात्मनः
कथमाराधयेद्भानुं मंडलस्थं दिवस्पतिम्
साधुसाधु महाबाहो साधु पृष्टोऽ स्मि भूधर
खषोल्कं निर्मलं देवं पूजयित्वा विभावसुम्
क्रमेण यावदीशानीं हृदि बीजेन विन्यसेत्
ततस्तस्योपरिष्टात्तु हृदयेन तु कंचु कम्
केसरालंबदेवत्वं पंचवर्णं महाद्भुतम्
दीप्तादि पूर्वादारभ्य यावदीशानगोचरम् 1.201.
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा
तत आवाहयेद्भानुं स्थापयेत्कर्णिकोपरि
उदुत्यं जातवेदसमिति मंत्रः प्रकीर्तितः
आकृष्णेन रजसा मंत्रेणानेन चार्चयेत्
अपप्तेतारकं देवीदीप्तानेन प्रपूजयेत्
तरणिर्विश्वदर्शेति अनेन सततं जयम्
विभूतिमर्चयेन्नित्यं येनापावकचक्षसा
अमोघां पूजयेन्नित्यं मंत्रेणानेन सुव्रत
मंत्रेणानेन कृष्णस्य उद्वयंतमितीह च
द्वितीयं पूजयेत्कृष्णं शुक्लेषु हरिमाहवे 1.201.
तत्सवितुर्वरेण्येति चतुर्थं परिकीर्तितम्