कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः
मुच्यते सर्वपापैस्तु यो ह्येवं विनिवेदयेत्
अयनानां सहस्रेण चन्द्रस्य ग्रहणे तथा दत्ते कुरुकुलश्रेष्ठ तदर्घ्येण फलं लभेत्
दीक्षामन्त्रविहीनोऽपि भक्त्या संवत्सरेण तु
यः पुनर्दीक्षितो विद्वान्विधिनार्घ्यं निवेदयेत्
इह जन्मनि सौभाग्यमायुरागेग्यसंपदाम्
एष स्नानविधिः प्रोक्तो मया संक्षेपतस्तव
सौरधर्मवर्णनम् सम्यग्ब्रह्मर्चनविधिं पूजयिष्यामि येन वै
विविक्ते विजय स्थाने सुप्रसन्ने सुशोभने
पूजयेद्भास्करं मन्त्री सरलीकृतविग्रहः
अस्त्रबीजेन मंत्रेण नरः स्वांगानि विन्यसेत्
हृदयादीन्फडन्तांस्तान्विन्यसेत्क्रमतः सदा
यवर्गे यचतुर्थं तु कर्णबिंदुसमन्वितम्
पश्चात्तु त्र्यक्षरं सूर्यं कवचं विन्यसेद्बुधः
प्राणायामं ततः कुर्यात्प्रथमं बीजमुद्गिरन्
त्रिभिरेव ततो घोरैरात्मशुद्धिः कृता भवेत्
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत्
हृद्बीजमिति विख्यातं ब्रह्मस्थानमनौपमम्
शिखायां तु शिखां न्यस्येच्छरीरे कवचं न्यसेत्
महाव्याहृतयो राजंस्तथारज्वालिनी शिखा
एतेषां समयाश्चैव कवचं परिकथ्यते
एवमंगानि विन्यस्य नासौ केनापि बाद्ध्यते
आत्मानं भास्करं ज्ञात्वा यथोक्तं तत्त्वदर्शिभिः
कृत्वा तु दक्षिणे पार्श्वे दिव्यपुष्पकरंडकम्
अस्त्रेण क्षालितां पूर्णां शेषं मंत्रैर्जलैस्तथा
स्थंडिले चैव द्रव्याणि पूजार्थं कल्पितानि तु ततो मंत्रं जपेत्पश्चादेकचित्तेन मंत्रवित्
स मया विदितः कृत्स्नः कथितो नैकशो द्विजैः
तथा मे ब्रूहि सकलं वैदिकं विधिसत्तमम्
इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे सौरधर्मे द्विशततमोऽध्यायः
सूर्यमण्डलदेवतार्चनविधिवर्णनम् अथ त्वां कथयिष्येहं संवादं धर्मवर्द्धनम्