त्रिसन्ध्यं वसुधादेवैर्भास्करस्त्रिः प्रणम्यते
अमृतार्थी विमानस्थो यावत्संस्रवतेऽमृतम्
न कश्चिद्धर्षितुं शक्त आदित्यो दहते ध्रुवम्
नादित्येन विना रात्रिर्न दिनं न च तर्पणम्
आदित्यः पाति वै सर्वमादित्यः सृजते सदा
भीष्मव्याससंवादवर्णनम् तदहंश्रोतुमिच्छामि विप्र मां ब्रूहि तत्त्वतः
सकलं मण्डलं कृत्वा तद्दीक्षा समयं तथा
लब्ध्वा राधयते यस्तु भक्त्या तद्गतमानसः
बलसिद्धिं महद्वीर्यं प्रतापं च स्वकायनम्
आरोग्यमायुः कीर्तिं च यशः पुत्रांश्च मानद
धर्ममर्थं तथा कामं विद्यां मोक्षश्रियं तथा
सौरेण विधिना तात पूजयित्वा दिवाकरम्
येन स्नातोऽमलो याति नरः पूज यितुं रविम्
शुचौ मनोरमे स्थाने संगृह्यास्त्रेण मृत्तिकाम्
संधिसंघो हकारस्तु टरेफोफसमन्विते
मलस्नानं ततः पश्चाच्छेषार्धेन तु कारयेत्
एकमस्त्रेण चालभ्य तथान्यं भास्करेण तु
जप्त्वास्त्रेण क्षिपेद्दिक्षु निर्विघ्नं तु जलं भवेत्
गु(मु)ण्डयित्वा ततः स्नायादिति तीर्थेषु मानवः
स्नात्वा राजोपचारेण पुनराचम्य यत्नतः
हरेफौ बिंदुयुक्तश्च तथान्यो दीर्घया सह
सकारः सविसर्गस्तु मंत्रराजोऽयमुच्यते
पर्वणामूर्ध्वतो देवाः सव्येन मुनयस्तथा
यद्गीतं प्रवरं लोके अक्षराणां मनीषिभिः
कृत्वा वामकरे हस्ताद्ध्यात्वा प्राज्ञो विधानवित्
ततो विद्वान्क्षिपेत्पश्चाद्भास्करायोदकांजलिम्
मंत्रराजेति यः पूर्वं तवाख्यातो मया नृप
मंत्रैरात्मानमेकत्र कृत्वा ह्यर्घ्यं प्रदापयेत्
कृत्वा मण्डलकं वित्तमेकचित्तो व्यवस्थितः
तिलतंडुलसयुक्तं कुशगन्धोदकेन तु