अदितिः कश्यपसती आदित्यस्तेन चोच्यते
तस्मादेतज्जगत्सर्वमादित्यात्संप्रवर्तते
रुद्रोपेंद्रौ तथेंद्रश्च ब्रह्मा दक्षोथ कश्यपः
मुखाद्भूतो विरिंचिस्तु रुद्रो वक्षस्थलात्ततः
वामपादतलाद्दक्षो दक्षिणात्कश्यपस्तथा तेनासौ देव आदित्यः सर्वदेवेषु पूजितः
यदि तस्य प्रभावोयं पाराशर्य जगत्पतेः
स किमर्थं त्रिसंध्यं तु राक्षसैः परिभूयते राहुणा गृह्यतेऽग्राह्यस्तत्किमर्थं द्विजोत्तम
दक्षिणाग्निर्दहेत्क्रोधात्तमाक्रामति भास्करः
त्रिसंध्यं तु त्रयो देवाः सान्निध्यं रविमंडले
तमेकमेवमुद्दिश्य लोके धर्मः प्रवर्तते
त्रिसन्ध्यं वसुधादेवैर्भास्करस्त्रिः प्रणम्यते
अमृतार्थी विमानस्थो यावत्संस्रवतेऽमृतम्
न कश्चिद्धर्षितुं शक्त आदित्यो दहते ध्रुवम्
नादित्येन विना रात्रिर्न दिनं न च तर्पणम्
आदित्यः पाति वै सर्वमादित्यः सृजते सदा
भीष्मव्याससंवादवर्णनम् तदहंश्रोतुमिच्छामि विप्र मां ब्रूहि तत्त्वतः
सकलं मण्डलं कृत्वा तद्दीक्षा समयं तथा
लब्ध्वा राधयते यस्तु भक्त्या तद्गतमानसः
बलसिद्धिं महद्वीर्यं प्रतापं च स्वकायनम्
आरोग्यमायुः कीर्तिं च यशः पुत्रांश्च मानद
धर्ममर्थं तथा कामं विद्यां मोक्षश्रियं तथा
सौरेण विधिना तात पूजयित्वा दिवाकरम्
येन स्नातोऽमलो याति नरः पूज यितुं रविम्
शुचौ मनोरमे स्थाने संगृह्यास्त्रेण मृत्तिकाम्
संधिसंघो हकारस्तु टरेफोफसमन्विते
मलस्नानं ततः पश्चाच्छेषार्धेन तु कारयेत्
एकमस्त्रेण चालभ्य तथान्यं भास्करेण तु
जप्त्वास्त्रेण क्षिपेद्दिक्षु निर्विघ्नं तु जलं भवेत्
गु(मु)ण्डयित्वा ततः स्नायादिति तीर्थेषु मानवः
स्नात्वा राजोपचारेण पुनराचम्य यत्नतः