अप्रत्यग्नं(ग्रं) बहिर्यस्मात्तस्मात्तत्परिवर्जयेत्
भोगानेकादशेनेह प्राप्नुयान्नात्र संशयः
प्रथमं पूजयेद्भक्त्या भूरूपं प्रणमेत्सदा
महर्नमश्चतुर्थं तु पंचमं तु जनो नमः
अष्टमं भूर्भुवश्चेति नवमं खगसत्तम
द्वादशं तु खषोल्केति ॐ नमः पूजयेत्खग
घृतदीपप्रदानेन चक्षुष्माञ्जायते नरः मधूकानां तु तैलेन सौभाग्यं परमं लभेत्
संपूज्य विधिवद्देवं पुष्पधूपादिभिर्नरः
पुष्पाणां प्रवरा जाती धूपानां चैव चन्दनम्
एतैस्तुष्यति देवेशः सान्निध्यं चाधिगच्छति
एवं संपूज्य विधिवत्कृत्वा चापि प्रदक्षिणाम् आरुह्य सुविमानं स याति भानोः सलोकताम्
पुनः संपूज्य देवेशं जपं कुर्याद्यथेष्टकम् एवमेकैकशः कार्याः सप्तम्यः सप्त सर्वदा
उदकप्रसृतिं पीत्वा क्रियते या तु सप्तमी
या काचित्सप्तमी नोक्ता तां ते वक्ष्यामि मर्वदा
अनेन देयमूल्येन यल्लब्धं तत्प्रभक्षयेत
व्यासभीष्मसंवादवर्णनम् स्तुवन्तः कं कमर्चतः प्राप्नुयुर्मानवाः शुभम्
को धर्मः सर्वधर्माणां कश्च पूज्यो मतस्तव
भीष्मस्य नरशार्दूल व्यासस्य च महात्मनः
सुखासीनं महाव्यासं गंगाकूले द्विजोत्तम
साक्षान्नारायणं देवं तेजसादित्यसन्निभम्
महाभारतकर्तारं वेदार्थनिकषं परम्
कर्तारं कुरुवंशस्य दैवतं परमं मम
देवदेवस्य माहात्म्यं चित्तस्थं भास्करस्य तु
ममाख्यातं त्वया सर्वं वाङ्मयं सचराचरम्
भास्करस्य मुनिश्रेष्ठ संशयोद्यापि वर्तते
ब्रह्मादीनां तु रुद्राद्यैर्ब्रूहि तत्त्वेन हेतुना
कीर्तयस्व यथान्यायं कौतुकं हि परं मम
स्तुवंतश्च तमर्चाभिः सिद्धा ब्रह्मादयः सुराः
सर्वेषामेव देवानामादिरादित्य उच्यते
स धर्मः सर्वधर्माणां स च पूज्यतमो मतः