नांधो न कुष्ठी न क्लीबो न व्यंगो न च निर्धनः
पुत्रार्थी श्रुतिसंपन्नाल्लँभेत्पुत्राश्चिरायुषः भोगार्थी लभते भोगान्व्रतेनानेन सुव्रत
क्रोधात्प्रमादाल्लोभाच्च व्रतभंगो यदा भवेत्
सप्तैव यावत्सप्तम्यः संप्राप्ता गुरुणा खग भोजयित्वा द्विजाञ्छक्त्या प्राप्नुयात्स्वर्गमक्षयम्
सप्तम्यां विप्रमुख्येभ्यो योऽन्नं दद्यात्खगेश्वर
इति ते कीर्तितं वीर सप्तमीव्रतमुत्तमम्
येन व्रतप्रभावेण कामिकं फलमश्नुते
गोमूत्रगोमयाहारः षड्वृताहार एव च ।। अथ वा यावकाहारः शीर्णपर्णाशनोपि वा
क्षीराशी चैकभक्तं(चैव भक्तं?) वा सिक्थाहारोथ वा पुनः
पुष्पोपहारैर्विविधैः पद्मसौगंधिकोत्पलैः
कृशरैः पायसान्नैर्वा विविधैश्च विभूषणैः
सर्वपक्षफलं प्राप्य सूर्यलोकं ततो व्रजेत्
यथाक्रमं प्रयत्नेन नामानि परिकीर्तयेत्
वैशाखे त्वथ ज्येष्ठे तु आषाढे श्रावणे तथा
मार्गशीर्षे तथा पौषे पूजयेत्सततं रविम्
विकर्तनं पतंगं च सहस्रांशुं खगाधिप
पूजयेद्देवदेवेशं देवानामपि दुर्लभम्
इत्येवं ते समाख्यातं मया गुह्यमिदं खग
न च पापकृते वीर दातव्यं विनतात्मज
दत्त्वा स्वर्गमवाप्नोति श्रुत्वा च विधिवत्खग
वराटिकावर्णनम् येन येन तु दानेन तत्तत्फलमवाप्नुयात्
मालतीकुसुमैः पूजा भवेत्सान्निध्यकारिका
ऐश्वर्यमतुलं चैव यशश्च विपुलं तथा
सौभाग्यं पुंडरीकैस्तु परमैश्वर्यमाप्नुयात्
नानाविधैः सुकुसुमैः क्षिप्रं रोगात्प्रमुच्यते
मंदारकुसुमैः पूजा सर्वकुष्ठनिवारिणी
अर्कस्रजा भवत्यर्कः सर्वदा वरदः प्रभुः
किंशुकैः पूजितो देवो न पीडयति भास्कर.
स्वयं रूपवतीं दद्यात्पूजितश्चंपकस्रजा
अशोककुसुमैर्देवमर्चयेद्यो दिवाकरम्