प्रायश्चित्ती भवेद्वीर न चार्हः पूजने रवेः
नान्यदेवप्रतिष्ठा तु कर्तव्या भोजकेन तु
तस्मात्तु तां न कुर्याद्वै भोजकः खगसत्तम
कृत्वाधिवेशं देवानां ब्रह्मादीनां खगाधिप
कृत्वा तु कृच्छ्रं विधि वच्छुद्धेर्हेतुं खगाधिप
न विज्ञातं प्रदातव्यं न म्लानं न च दूषितम्
देवमुल्लोचयेद्यस्तु स खलः पुष्पलोभतः
ब्रह्महत्यामवाप्नोति भोजको लोभमोहितः
हंत ते कीर्तयिष्यामि धूपदानविधिं परम्
सदा चंदनधूपेन सान्निध्यं कुरुते रविः
तथैवागुरुधूपेन वरं दद्या दभीप्सितम्
मंगलं धूपदानेन सदा यच्छति भानुमान्
सदा कुंकुमधूपेन सौभाग्यं लभते नरः
रसं सर्वरसोपेतं ददतोर्थागमो ध्रुवम्
विलेपनं कुंकुमेन सर्वकामफलप्रदम्
चंदनस्य प्रदानेन श्रियमायुश्च विंदति
अपि रोगशतैर्ग्रस्तैः क्षिप्रारोग्यमवा प्नुयात्
कस्तूरिकालेपनकैरैश्वर्यमतुलं लभेत्
चतुःसमेन गंधेन किं तुल्यं प्राप्नुयान्नरः
स रोगान्मुच्यते क्षिप्रं पुरुषो भोगवान्भवेत् प्रलयं यांति ते सर्वे मृदा यद्युपलेपयेत्
प्रलेपनानां सर्वेषां रक्तचंदनमुत्तमम्
किं तस्य न भवेल्लोको यो ह्यनेन प्रलेपयेत्
उपलिप्य रवेर्गेहं कुर्याद्वै मंडलं पुनः
त्रिभिः सप्तभिरच्छिन्ना बालो वान्योपि यो नरः अनेन विधिना कुर्याद्यावतीः सप्त सप्तमी
एता वै सप्त सप्तम्यो यथा प्रोक्ता विवस्वता
अर्कसंपुटकैर्वित्तं मरिचैः प्रियसंगमम् धनं धान्यं सुवर्णं च ततो दद्याद्विवस्वते
जयं प्राप्नोति विपुलं कृत्वा सर्वत्र खेचर
नरो वा यदि वा नारी यथोक्तं सप्तमीव्रतम्
न तेषां त्रिषु लोकेषु किंचिदस्तीति दुर्लभम्
सर्वयज्ञफलं तेषां यथा वेदोदितं भवेत्