दुष्पापं नास्ति तद्वीर सप्तम्यां यन्न दह्यते
कुष्ठानि यानि रौद्राणि दुश्छेद्यानि भिषग्जनैः
सकलविबुधमान्यं स्वप्रकाशं जनानामभिमतफलदाने दीक्षितं तं सुपूज्यम्
नामपूजाविधिवर्णनम् मैत्रीं विदध्यात्सर्वत्र जीवहिंसां विवर्जयेत्
सप्तम्यां न स्पृशेत्तैलं नीलं वस्त्रं न धारयेत्
न रुद्यादश्रुपातेन न वा ध्यायेत्पिशाचकान् परस्यानिष्टकथनमतिवादं च वर्जयेत्
न कंचित्ताडयेज्जंतुं न विशेत कदाचन
इत्येते समयाः प्रोक्ताः सौराणां गरुडाग्रज
भोजकः खगशार्दूल यो लोभाद्द्रव्यमुत्सृजेत्
विशेषे चाल्पकशते कामयाने खगाधिप
प्रायश्चित्ती भवेद्वीर न चार्हः पूजने रवेः
नान्यदेवप्रतिष्ठा तु कर्तव्या भोजकेन तु
तस्मात्तु तां न कुर्याद्वै भोजकः खगसत्तम
कृत्वाधिवेशं देवानां ब्रह्मादीनां खगाधिप
कृत्वा तु कृच्छ्रं विधि वच्छुद्धेर्हेतुं खगाधिप
न विज्ञातं प्रदातव्यं न म्लानं न च दूषितम्
देवमुल्लोचयेद्यस्तु स खलः पुष्पलोभतः
ब्रह्महत्यामवाप्नोति भोजको लोभमोहितः
हंत ते कीर्तयिष्यामि धूपदानविधिं परम्
सदा चंदनधूपेन सान्निध्यं कुरुते रविः
तथैवागुरुधूपेन वरं दद्या दभीप्सितम्
मंगलं धूपदानेन सदा यच्छति भानुमान्
सदा कुंकुमधूपेन सौभाग्यं लभते नरः
रसं सर्वरसोपेतं ददतोर्थागमो ध्रुवम्
विलेपनं कुंकुमेन सर्वकामफलप्रदम्
चंदनस्य प्रदानेन श्रियमायुश्च विंदति
अपि रोगशतैर्ग्रस्तैः क्षिप्रारोग्यमवा प्नुयात्
कस्तूरिकालेपनकैरैश्वर्यमतुलं लभेत्
चतुःसमेन गंधेन किं तुल्यं प्राप्नुयान्नरः
स रोगान्मुच्यते क्षिप्रं पुरुषो भोगवान्भवेत् प्रलयं यांति ते सर्वे मृदा यद्युपलेपयेत्