भृंगारचमरादर्शकनकाभरणानि च स्वप्ने वृक्षाधिरोहे तु क्षिप्रमैश्वर्यमाहवे
दोहनं महिषीसिंहीगोधेनूनां करे स्वके
अविं हत्वा स्वयं खादेत्सिंहमंबुजमेव च
हैमे वा राजते वापि यो भुंक्ते पायसं नरः
द्यूते च वाथ वा युद्धे विजयो हि सुखावहः
माल्यांबराणां शुक्लानां हयानां पशुपक्षिणाम्
हययाने भवेत्क्षिप्रं रथयाने प्रजागमः 1.194.
अगम्यागमनं धन्यं वेदाध्ययनमुत्तमम्
यद्वदंति नरं स्वप्ने सत्यमेवेति तद्विदुः
राज्यं स्यात्स्वशिरश्छेदे धनं बहुवधे भवेत्
पर्वतं तुरगं सिंहं वृषभं गजमेव हि
आगृह्णानो ग्रहांस्तारा मरीचिं परिवर्तयन्
देहान्निष्कांतिरंत्राणां सर्वेषां च खगाधिप
तस्यापत्यं भवेद्वीर अचलं च खगाधिप
भवत्यर्थागमः शीघ्रं कृमिर्वा यदि भक्षयेत् । संयोगश्चैव मांगल्यैरारोग्यं धनमेव च
ऐश्वर्यं राज्यलाभश्च यस्मिन्स्वप्न उदाहृतः
पंचभिः पुत्रबाहुल्यं षड्भिरायुः सुतान्धनम् ।। 1.194.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यारुणसंवादे स्वप्नवर्णनं नाम चतुर्नवत्यधिकशततमोऽध्यायः
सूर्यारुणसंवादे स्वप्नवर्णनम् अनूरुरुवाच भगवञ्छ्रोतुमिच्छामि सप्तमीनां परं विधिम्
कीर्तयिष्यामि ते सर्वं यथावत्परिपृच्छते
तुल्यं किल खगश्रेष्ठ यथाख्यातं विवस्वता
पुत्रदारधनक्षेत्रे गृह्णीयात्सप्तमीव्रतम्
सप्तम्यः सप्तआख्यातास्तासां नामानि मे शृणु
तृतीया निंबपत्रैश्च चतुर्थी फल सप्तमी
पंचम्यामेकभक्तं तु कुर्यान्नियतमानसः
वर्जयेन्मधु मांसं च अत्यम्लं च खगाधिप
घृतशाल्योदनं कृत्वा भक्षयेत्तु विधानतः
एकैकवृद्धाभियुक्तैर्यो वसेत्तु खगेश्वर 1.195.
एवं लब्धफलानीह पक्षयोरुभयोरपि
आचरेद्विधिवद्भक्त्या पूजयित्वा विभावसुम्