नीयंते देहिनः सर्वे ये मूढाः पापकारिणः पुण्येन याति देवत्वं पापेन नरकं व्रजेत्
यैर्मनागपि देवेशो मनसा पूजितो रविः ।। 1.192.
किं तु पापैर्महाघोरैः किञ्चित्कालं तवाज्ञया
तस्मात्प्रकुर्याद्भक्तिं वै भास्करे सततं नरः
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सप्ताश्वतिलकानूरुसंवादे द्विनवत्यधिकशततमोऽध्यायः
दन्तकाष्ठविधिवर्णनम् सप्ताश्वतिलक उवाच अयने विषुवे वारे संक्रांतौ ग्रहणे तथा
वैनतेय निबोध त्वं विधानं सप्तमीव्रते
सिद्धार्थकैस्तु प्रथमा द्वितीया चार्कसंपुटैः
सप्तमी चौदनैर्वीर सप्तमी परिकीर्तिता
तथा चानुक्रमे तासां लक्षणं कथया म्यहम्
आर्तस्य तु न नियमः पक्षमासकृतो भवेत्
पञ्चम्यां तत्र ये वृक्षाः कामितास्तान्वदाम्यहम्
बदर्या च बृहत्या च क्षिप्रं रोगात्प्रमुच्यते
शत्रुक्षयः कदंबेषु अर्थलाभोतिमुक्तके
ज्ञातिप्रधानतां याति अश्वत्थो यच्छते यशः 1.193.
श्रियं प्राप्नोति विपुलां शिरीषस्य निवे शने
अभीप्सितार्थसिद्ध्यर्थं सुखासीनोथ वाग्यतः मंत्रेणानेन मतिमानश्नीयाद्दन्तधावनम्
वरं दत्त्वाभिजानासि कामदं च वनस्पते
त्रीन्वारान्परिजप्यैवं भक्षयेद्दंतधावनम्
ऊर्ध्वे निपतिते सिद्धिस्तथा चाभि मुखे स्थिते
पराङ्मुखं यदि भवेत्त्रीन्वारान्दंतधावनम्
ब्रह्मचारी तु तां रात्रिं स्वप्यान्मंगलसेवया
तस्यां रात्र्यां व्यतीतायां प्रात रुत्थाय वै खग
उपविश्य शुचिर्भूत्वा प्रणम्य शिरसा रविम्
ततोपराह्नसमये स्नात्वा मृद्गोमयांबुभिः 1.193.
पूजयित्वा विधिं भक्त्या देवदेवं दिवाकरम्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे दन्तकाष्ठविधिवर्णनंनाम त्रिनवत्यधिकशततमोऽध्यायः
सूर्यारुणसंवादे स्वप्नवर्णनम् स्वप्ने दृष्टे तु सप्तम्यां पुरुषो नियतव्रतः
समाप्य विधिवत्सर्वां जपहोमादिकां क्रियाम्
हन्त सुप्तो यदि नरः पश्येत्स्वप्ने दिवाकरम्