कामालसा तु तच्छ्रुत्वा यथा जातं तथाऽब्रवीत्
मत्वा पतिव्रतां नारीं परिक्रम्य व्यसर्जयत्
गेहे प्रवेशयामास तत्पतिर्यत्र तिष्ठति
बुभुजे विषयान्दिव्यान्देवदेवेन चोदितान् कस्य सत्यं स्मृतं श्रेष्ठं तेषां मध्ये वदस्व मे
चौरस्य सत्यता श्रेष्ठा यथा जाता तथा शृणु
वैधव्यभीत्या सा देवी स्वमित्रं प्रति चागता
चौरस्तु सत्यभीत्या वै त्यक्त्वा तां मुदमागतः
गौडदेशे महाराज वर्धनं नाम वै पुरम्
गुणशेखर आख्यातो भूपालस्तत्र धर्मवान्
कदाचिद्भूपतिर्यातो मन्दिरे गिरिजापतेः
वृश्चिकस्तत्र संप्राप्य ददंश नृपतिं रुषा
तदा तु निर्भयानन्दो विषमुत्तार्य तस्य वै
शृणु राजन्महाभाग शत्रून्षण्मानसाधमान् रजोगुणाच्च ते जातास्तेषां भेदाः पृथक्पृथक्
मोहो दंभो मदश्चैव ममताशा च गर्हणा
कामी विष्णुस्तथा रुद्रः क्रोधी लोभी विधिस्तथा
माया वश्याश्च ते सर्वे तर्हि तत्पूजनेन किम्
न जितः स जिनो ज्ञेयोऽद्वैतवादी निरंजनः 3.2.10.
तत्प्रसादाय यो धर्मः शृणु मे वसुधाधिप
अतो गोपूजनं शुद्धं हिंसा सर्वत्र वर्जिता
तस्मान्मांसं च पानं च वर्जितं सर्वदैव हि। न्यायेनोपार्जितं वित्तं भोजयेच्च बुभुक्षितान्
रविरात्मा जिनस्यैव तत्प्रकाशे हि भोजयेत्
तथैव मत्वा स नृपो जिनधर्मं गृहीतवान्
तदा तु दुःखिता राज्ञी शिवस्य शरणं ययौ
वरदानेन रुद्रस्य पुत्रो जातो महोत्तमः
गुणशेखर एवासौ पंचत्वे निरयं ययौ
तस्य धर्मप्रभावेण तत्पिता स्वर्गमाप्तवान्
वसंतसमये राजा ताभिः सह वनांतरे 3.2.10.
श्रमितः स तु भूपालो राज्ञीभिः सह मोदितः २१ गृहीत्वा कुसुमं पाद्मं करे राज्ञ्यै समार्पयत्
दुःखितः स तु भूपालो राज्ञीं तामचिकित्सयत्
अपतद्व्याकुलीभूत्वा शुद्धं पादमभूत्ततः