षडशीतिसहस्राणि योजनानामशीति च
समीपस्थमिवाभाति नराणां शुभचारिणाम् 1.192.
तीक्ष्णकंटकयुक्तेन शर्करानिचितेन च
क्वचिदर्केण महता दुरंतैश्चैव खातकैः
ततः पतद्भिर्विमलैः पर्वतैर्वृक्षसंकुलैः
क्वचिद्विषमगर्ताभिः क्वचिल्लोष्ठैः सपिच्छलैः
अनेकशाखारचितैर्व्याप्तैर्वंशवनैः क्वचित्
अथ शृंगाटकैर्व्याप्तैः क्वचिद्दावाग्निना पुनः
क्वचिद्वालुकया व्याप्तमाकंठांतं प्रवेशयेत्
क्वचित्सिंहैः क्वचिद्व्याघ्रैर्दंशैः कीटैश्च दारुणैः
मक्षिकाभिश्च रौद्राभिः क्वचित्सपेंर्विषोल्बणैः
पंथानमुल्लिखद्भिश्च तीक्ष्ण शृंगैर्महावृषैः 1.192.
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः
महापाशविमिश्रेण महाचंडेन वायुना
क्वचिद्विद्युत्प्रपातेन दीर्यमाणा व्रजंति हि
प्रदीप्तांगारवर्षेण दह्यमाना व्रजंति हि
महामेघरवैर्घोरैर्वित्रास्यंते मुहुर्मुहुः
महाक्षुरांबुधाराभिः सेव्यमाना व्रजंति हि
भृशं शीतेन तीक्ष्णेन रूक्षेण मारुतेन च
निरालंबेन दुर्गेण निर्जनेन समंततः
नीयंते देहिनः सर्वे ये मूढाः पापकारिणः पुण्येन याति देवत्वं पापेन नरकं व्रजेत्
यैर्मनागपि देवेशो मनसा पूजितो रविः ।। 1.192.
किं तु पापैर्महाघोरैः किञ्चित्कालं तवाज्ञया
तस्मात्प्रकुर्याद्भक्तिं वै भास्करे सततं नरः
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सप्ताश्वतिलकानूरुसंवादे द्विनवत्यधिकशततमोऽध्यायः
दन्तकाष्ठविधिवर्णनम् सप्ताश्वतिलक उवाच अयने विषुवे वारे संक्रांतौ ग्रहणे तथा
वैनतेय निबोध त्वं विधानं सप्तमीव्रते
सिद्धार्थकैस्तु प्रथमा द्वितीया चार्कसंपुटैः
सप्तमी चौदनैर्वीर सप्तमी परिकीर्तिता
तथा चानुक्रमे तासां लक्षणं कथया म्यहम्