निर्दयोतीवभृत्येषु पशूनां दमकश्च यः स्वामिमित्रगुरुद्रोही मायावी चपलः शठः
ये भार्यापुत्रमित्राणि बालवृद्धकुशातुरान्
यः स्वयं पक्वमश्नाति विप्रायान्नं न यच्छति
नियमं स्वयमादाय ये त्यजंत्यजितेंद्रियाः 1.191.
ये ताडयंति गां मूढास्त्रासयंति मुहुर्मुहुः
पीडयंत्यतिभारेण अक्षयं वाहयंति च वाहयंति च गां वंध्यां ते पापिष्ठा नराधमाः
अनर्थविकलं हीनं बालवृद्धकृशानुगम्
अजाविका माहिषिकाः सवित्रीवृषलीपतिः
शिल्पिनः कारुका वेश्याः क्षेमकारनृपध्वजाः
घृत तैलानुपानानि मधुमांसरसासवम्
तृणानि काष्ठं पुष्पाणि बीजौषधिमनुत्तमाम्
ताम्रं सीसं त्रपुं कांस्यं शंखाद्यं च जलोद्भवम्
और्णकार्पासकौशेयभंगपट्टोद्भवानि च
एवमादीनि चान्यानि द्रव्याणि विविधानि च 1.191.
यद्वा तद्वा तु पारोक्ष्यमपि सर्षपमात्रकम्
एवमाद्यैर्नरः पापैरुत्क्रांतेः समनंतरम्
यमलोके व्रजेदेवं शरीरेण यमाज्ञया
देवमानुषजीवानामधर्मनिरतात्मनाम्
विनयाभावयुक्तानां प्रमादा त्स्वलितात्मनाम्
पारदारिकचोराणामन्यायव्यवहारिणाम्
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत्
यः करोति शुभं कर्म कारयेदनुमोदयेत्
इति संक्षेपतः प्रोक्ता पापभेदात्त्रिधा गतिः
सप्ताश्वतिलकानूरुसंवादवर्णनम् सप्ताश्वतिलक उवाच संत्रासजननं घोरं पापानां पापकारिणाम् । १ स्त्रीपुनपुंसकैर्वृद्धैर्गंतव्यं सर्वजंतुषु
चित्रगुप्तादिभिः सर्वैर्धर्मस्थैः सत्यवादिभि अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम्
तत्र ये शुभकर्माणः सौम्य चित्ता दयान्विताः
यः प्रदद्याद्द्विजेंद्राणामुपानत्काष्ठछत्रकम्
सोपानत्को नरो यस्तु देवायतनमाविशेत्
सोपानत्कानि दानानि तथान्नं तु विशेषतः यस्माद्याति सुखेनैव तस्माद्धर्मं समाचरेत्
ये पुनः क्रूरकर्माणो नराः पापरताः खग