महापातकतुल्यानि पापान्युक्तानि यानि तु
द्विजायार्थं परिश्रुत्य न प्रयच्छति यो द्विज 1.190.
गोभू हिरण्यवस्त्राणामपहारः प्रयत्नतः
यः पीडामाश्रमस्थान आचरेदल्पिकामपि
कूपधान्यपशुस्तेयमयाज्यानां च याजनम्
तीर्थ यात्रोपवासानां व्रते च जपकर्मणि
अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम्
देवाग्निसाधुसाध्वीनां निन्दा गोब्राह्मणस्य च
उत्सन्नपितृदेवाश्च स्वकर्मत्यागिनश्च ये
एवं कामे प्रवृत्ते तु वियोनौ पशुयोनिषु
स्त्रीपुत्रमित्रसंप्रीते रारामोच्छेदकाश्च ये
भेत्ता तडागवप्राणां संक्रमाणां रसस्य च 1.190.
इत्येतैस्तु नराः पापैरुपपातकिनः स्मृताः
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यानूरुसंवादे नवत्यधिकशततमोऽध्यायः
सप्ताश्वतिलकारुणसंवादम् दूषकाश्चैव वर्तंते नरा नरकगामिनः
परिश्रमेण तप्यन्ते येऽपरे तस्य सूचकाः
गोष्ठाग्निजलरम्यासु तरुच्छायानगेषु च
मद्यपानरता नित्यं गीतवाद्यरता नराः
पाखण्डमतसंयुक्ता वृथा संलाप कौतुकाः
कूटशासनकर्तारः कूटकर्मकृतो नराः
निर्दयोतीवभृत्येषु पशूनां दमकश्च यः स्वामिमित्रगुरुद्रोही मायावी चपलः शठः
ये भार्यापुत्रमित्राणि बालवृद्धकुशातुरान्
यः स्वयं पक्वमश्नाति विप्रायान्नं न यच्छति
नियमं स्वयमादाय ये त्यजंत्यजितेंद्रियाः 1.191.
ये ताडयंति गां मूढास्त्रासयंति मुहुर्मुहुः
पीडयंत्यतिभारेण अक्षयं वाहयंति च वाहयंति च गां वंध्यां ते पापिष्ठा नराधमाः
अनर्थविकलं हीनं बालवृद्धकृशानुगम्
अजाविका माहिषिकाः सवित्रीवृषलीपतिः
शिल्पिनः कारुका वेश्याः क्षेमकारनृपध्वजाः
घृत तैलानुपानानि मधुमांसरसासवम्