तन्नार्चयन्ति ये भानुं सकृदुच्छिष्टदेहिनः 1.189.
द्विर्जपंति च ये भानुं क्रूराः संक्रुद्धलोचनाः
त्रिरर्चयन्ति ये भानुं मद्यमांसरता नराः
ये नृत्यगीतं कुर्वंति त्रिश्चतुर्धा यदृच्छया
लोकाः ख्यातिं समुद्दिश्य पूजयंति च गोपतिम्
कामासक्तेन चित्तेन यः षडर्चयते रविम्
नवकृत्वोर्चयेद्यस्तु चित्रभानुं खगाधिप
तस्मादपि परं स्थानं यद्भूतानां मनोहरम्
असंख्यैर्वस्तुभिर्व्याप्तं गैरिकै रक्तचित्रकैः
तत्स्थानं ते प्रगच्छंति अर्चयन्ति च ये द्विजान् तस्मादपि परं स्थानं ज्योतिष्कं सौरमुच्यते
एवं सूर्यानुभावेन निकृष्टेनापि कर्मणा ।।1.189.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सप्ताश्वानूरुसंवादो नाम एकोननवत्यधिकशततमोऽध्यायः
सौरधर्मेषु सूर्यानूरुसंवादवर्णनम् सप्ताश्वतिलक उवाच तारारूपविमानानामिमाः संति च कोटयः
इत्येता गतयः प्रोक्ता महत्यः सौरधर्मिणाम्
इदानीं पापनिचयाः स्थूला नरकहेतवः
गवां मार्गे वने चाग्नेः पुरे ग्रामे समर्पणम्
वने सर्वस्य हरणं नरस्त्रीगजवाजिनाम्
चन्दनागुरुकर्पूरकस्तूरीपट्टवाससाम्
कन्यानां वरयोग्यानामाकर्षणमसंगतः
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम्
महापातकतुल्यानि पापान्युक्तानि यानि तु
द्विजायार्थं परिश्रुत्य न प्रयच्छति यो द्विज 1.190.
गोभू हिरण्यवस्त्राणामपहारः प्रयत्नतः
यः पीडामाश्रमस्थान आचरेदल्पिकामपि
कूपधान्यपशुस्तेयमयाज्यानां च याजनम्
तीर्थ यात्रोपवासानां व्रते च जपकर्मणि
अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम्
देवाग्निसाधुसाध्वीनां निन्दा गोब्राह्मणस्य च
उत्सन्नपितृदेवाश्च स्वकर्मत्यागिनश्च ये
एवं कामे प्रवृत्ते तु वियोनौ पशुयोनिषु