अरुदत्सा तु तत्पत्नी मित्रवाक्येन कर्षिता
किं रोदिषि मदापूर्णे सत्यं कथय शोभने
यदि नायामि पार्श्वे त्वां सोमदत्त धनोत्तम
इति वाक्येन बद्धाहं यास्याम्यद्य तदंतिके
सुष्वाप सा तु तत्पार्श्वे ह्यगमत्कामविह्वला
वचश्चोवाच लोभात्मा कुत्र यासि च सुन्दरि
कामालसा तु तं चौरमुवाच मदविह्वला
चौरस्तामाह भोः सुभ्रूर्भूषण देहि मेऽबले
आलिंग्योपपतिं मित्रं तुभ्यं दास्यामि भूषणम्
दृष्ट्वा तामब्रवीद्वैश्यः कथं याता स्मरालसे 3.2.9.
कामालसा तु तच्छ्रुत्वा यथा जातं तथाऽब्रवीत्
मत्वा पतिव्रतां नारीं परिक्रम्य व्यसर्जयत्
गेहे प्रवेशयामास तत्पतिर्यत्र तिष्ठति
बुभुजे विषयान्दिव्यान्देवदेवेन चोदितान् कस्य सत्यं स्मृतं श्रेष्ठं तेषां मध्ये वदस्व मे
चौरस्य सत्यता श्रेष्ठा यथा जाता तथा शृणु
वैधव्यभीत्या सा देवी स्वमित्रं प्रति चागता
चौरस्तु सत्यभीत्या वै त्यक्त्वा तां मुदमागतः
गौडदेशे महाराज वर्धनं नाम वै पुरम्
गुणशेखर आख्यातो भूपालस्तत्र धर्मवान्
कदाचिद्भूपतिर्यातो मन्दिरे गिरिजापतेः
वृश्चिकस्तत्र संप्राप्य ददंश नृपतिं रुषा
तदा तु निर्भयानन्दो विषमुत्तार्य तस्य वै
शृणु राजन्महाभाग शत्रून्षण्मानसाधमान् रजोगुणाच्च ते जातास्तेषां भेदाः पृथक्पृथक्
मोहो दंभो मदश्चैव ममताशा च गर्हणा
कामी विष्णुस्तथा रुद्रः क्रोधी लोभी विधिस्तथा
माया वश्याश्च ते सर्वे तर्हि तत्पूजनेन किम्
न जितः स जिनो ज्ञेयोऽद्वैतवादी निरंजनः 3.2.10.
तत्प्रसादाय यो धर्मः शृणु मे वसुधाधिप
अतो गोपूजनं शुद्धं हिंसा सर्वत्र वर्जिता
तस्मान्मांसं च पानं च वर्जितं सर्वदैव हि। न्यायेनोपार्जितं वित्तं भोजयेच्च बुभुक्षितान्