भक्तिभावः परा प्रीतिर्धर्मो धर्मैकभावनः
श्रद्धया विधिवत्पात्रे प्रतिपादितमुत्तमम् 1.189.
यद्दानं श्रद्धया पात्रे विधिवत्प्रतिपादितम्
आर्तेषु दीनेषु गुणान्वितेषु यः श्रद्धया स्वल्पमपि प्रदद्यात्
श्रद्धा दानं परं ज्ञेयं श्रद्धा एव तपः परम्
अथाहिंसा क्षमा सत्यं ह्रीः श्रद्धेंद्रियसंयमः
हंतव्यस्तैः समस्तैर्वा सूर्यधर्मैरनुष्ठितैः
परस्त्रीद्रव्यसंकल्पं यः सापेक्षं करोति च अरिभिः परिभूतं च संत्यजेच्चैव पापकृत्
तद्भार्यामित्रपुत्रेषु यश्चावज्ञां करोति च
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य वदेत यः 1.189.
ब्राह्मणं च समाहूय याचमानमकिंचनम्
देवद्विजगवां भूमिं पूर्वदत्तां हरेत यः
अधीत्य यो रवेर्ज्ञानं परित्यजति मंदधीः
अग्निहोत्रपरित्यागः पंचयज्ञियकर्मणाम्
अप्रियं सूर्यभक्तानामभक्ष्यस्य च भक्षणम्
सर्वाधिपत्यमेतेषां नास्ति देवपुरोत्तमे
केचिदत्रैव मुच्यन्ते ज्ञानयोगपरा नराः
तस्माद्विमोक्षमन्विच्छन्भोगासक्तिं विवर्जयेत्
यच्चाप्यसक्तहृदया जपन्तीमं प्रसंगतः
तन्नार्चयन्ति ये भानुं सकृदुच्छिष्टदेहिनः 1.189.
द्विर्जपंति च ये भानुं क्रूराः संक्रुद्धलोचनाः
त्रिरर्चयन्ति ये भानुं मद्यमांसरता नराः
ये नृत्यगीतं कुर्वंति त्रिश्चतुर्धा यदृच्छया
लोकाः ख्यातिं समुद्दिश्य पूजयंति च गोपतिम्
कामासक्तेन चित्तेन यः षडर्चयते रविम्
नवकृत्वोर्चयेद्यस्तु चित्रभानुं खगाधिप
तस्मादपि परं स्थानं यद्भूतानां मनोहरम्
असंख्यैर्वस्तुभिर्व्याप्तं गैरिकै रक्तचित्रकैः
तत्स्थानं ते प्रगच्छंति अर्चयन्ति च ये द्विजान् तस्मादपि परं स्थानं ज्योतिष्कं सौरमुच्यते