देहीति सुवदन्नर्थी धनं बोधयतीव सः
बोधयंति न याचन्ते देहीति कृपणा जनाः 1.189.
आयात्यर्थी गृहं यस्तु कस्तं न प्रतिपूजयेत्
यद्बलादप्यनिच्छंतं योजयंति नराश्रयान्
एकस्तिष्ठति चाधस्तादन्यश्चोपरि तिष्ठति
यः प्राप्तायार्थिने दानं त्यक्त्वा पात्र मुदीक्षते
यद्यर्थिनो नरा न स्युर्दानधर्मः कथं भवेत्
पादोदकमनुव्रज्यात्स्वर्गसोपानसप्तकम्
ग्रासादर्धमपि ग्रासं युक्तं दातुं सदार्थिनाम्
तस्मात्सत्कृत्य दातव्यमनंतफलमिच्छता
न तद्दानमसत्कारपारुष्यमलिनीकृतम्
न तद्धनं न च प्रीतिर्न धर्मः प्रियवर्जितः यत्नेनापि कृतं सर्वं क्रोधोऽस्य निष्फलं खग ।। 1.189.
यः श्रद्धयार्चितं दद्यात्प्रति गृह्णाति चार्चितम्
औदार्यं स्वागतं मैत्री ह्यनुकंपा च मत्सरः
वाराणसी कुरुक्षेत्रं प्रयागं पुष्कराणि च
मूलस्थानं महापुण्यं पुंडीरस्वामिकं तथा
इत्येते कीर्तिता देशाः सुरसिद्धनिषेविताः गोसिद्धमुनि वासाश्च देशाः पुण्याः प्रकीर्तिताः
सूर्यायतनसंस्थानां यद्यदल्पं तु दीयते
ग्रहणं चंद्रसूर्याभ्यामुत्तरायणमुत्तमम्
दिनच्छिद्राणि संक्रांतिः पुण्यं विषुपदं खग
भक्तिभावः परा प्रीतिर्धर्मो धर्मैकभावनः
श्रद्धया विधिवत्पात्रे प्रतिपादितमुत्तमम् 1.189.
यद्दानं श्रद्धया पात्रे विधिवत्प्रतिपादितम्
आर्तेषु दीनेषु गुणान्वितेषु यः श्रद्धया स्वल्पमपि प्रदद्यात्
श्रद्धा दानं परं ज्ञेयं श्रद्धा एव तपः परम्
अथाहिंसा क्षमा सत्यं ह्रीः श्रद्धेंद्रियसंयमः
हंतव्यस्तैः समस्तैर्वा सूर्यधर्मैरनुष्ठितैः
परस्त्रीद्रव्यसंकल्पं यः सापेक्षं करोति च अरिभिः परिभूतं च संत्यजेच्चैव पापकृत्
तद्भार्यामित्रपुत्रेषु यश्चावज्ञां करोति च
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः