युगपत्पूजितास्तेन ब्रह्मविष्णु महेश्वराः
तुष्यंति पितरस्तस्य सुकृष्टेनेव कर्षुकाः
अपि नः स कुले कंचिदुद्धरेत्किं खगेश्वर
तृप्यंति पितरस्तस्य गायंति च पितामहाः
पुराणविदमायांतं दृष्ट्वैव सह संस्थिताः
अनुग्रहाय लोकानां श्रद्धायाश्च परीक्षणे
तस्मादतिथिमायांतमग्रे गच्छेत्कृतांजलिः
रूपान्वितं विरूपं वा मलिनं मलिनांबरम् 1.188.
भोजकानां शरीरेषु नित्यं सन्निहितो रविः अधोमुखोर्द्ध्वपादास्ते पतंति नरकाग्निषु
कृमिभिर्भिन्नवदनास्तप्यमानाश्च वह्निना
ये चापवादं शृण्वंति विमूढा ब्राह्मणेषु वै
सर्वेषामेव पात्राणां सत्पात्रं जापकः परः
सौरधर्मेषु सप्ताश्वसंवादः जपोपेक्षे तथा दानं सह पात्रेण नश्यति
भस्मनीव हुतं हव्यं यथा होतुश्च निष्फलम्
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला
लोहोडुपेन प्रतरन्निमज्जत्युदके यथा
कारुण्यात्सर्वभूतेषु श्रद्धया यत्प्रदीयते
दीनांधकृपणानां च बालवृद्धातुरेषु च
न हि स्वार्थं समुद्दिश्य प्रतिगृह्णंति साधवः
दातुरेवोपकाराय वदत्यर्थी ददस्व मे
देहीति सुवदन्नर्थी धनं बोधयतीव सः
बोधयंति न याचन्ते देहीति कृपणा जनाः 1.189.
आयात्यर्थी गृहं यस्तु कस्तं न प्रतिपूजयेत्
यद्बलादप्यनिच्छंतं योजयंति नराश्रयान्
एकस्तिष्ठति चाधस्तादन्यश्चोपरि तिष्ठति
यः प्राप्तायार्थिने दानं त्यक्त्वा पात्र मुदीक्षते
यद्यर्थिनो नरा न स्युर्दानधर्मः कथं भवेत्
पादोदकमनुव्रज्यात्स्वर्गसोपानसप्तकम्
ग्रासादर्धमपि ग्रासं युक्तं दातुं सदार्थिनाम्
तस्मात्सत्कृत्य दातव्यमनंतफलमिच्छता