द्विजानां वेदविदुषां कटिसंभोगि यत्फलम्
जीवो यस्यैत्य गृहे च भुङ्क्ते सत्कृतिसत्कृतः
यज्ञाग्निहोमतीर्थेषु यत्फलं परिकीर्तितम्
भोजिने शांतचित्ताय परिध्यानरताय च
जपकाञ्छांतिसंयुक्तानादित्यार्पितचेतसः
ध्यायमानो रवेः सूक्तं भोजयेत्सततं च यः
पितॄनुदिश्य यः श्राद्धे भोजयेद्भोजकं नरः
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे धेनुमाहात्म्यवर्णनं नाम सप्ताशीत्यधिकशततमोऽध्यायः
भोजकसत्कारवर्णनम् हुत्वाग्नौ प्रक्षिपेद्वीर बलिं दिक्षु समंततः
सूर्याग्निगुरुविप्राणां सर्वपाकान्नमन्वहम्
कृषिपाल्ये च वाणिज्ये क्रोधसत्यक्षयादिभिः
कंडनी पेषणी चुल्ली उदकुंभः प्रमार्जनी
सूर्याग्निगुरुपूजाभिः पापैरेतैर्न लिप्यते
सूर्याग्निगुरुनैवेद्यं यावत्स्यादन्नसंख्यया
घृतपूपयुतैः सिक्तैः पुण्यं दशगुणोत्तरम्
षष्टिकौदननैवेद्यं सहस्रगुणितं फलम्
भक्ष्यान्नपानदानानि तत्फलानि तथातथा भक्ष्यं निवेद्य पूर्वोक्तमक्षयं लभते फलम्
एवं यः कुरुते भक्तिं देव देवे दिवाकरे 1.188.
गंगास्नानमिदं पुण्यं दर्शनात्प्राप्नुयाद्रवेः
मुच्यते सर्वपापेभ्यः प्रणम्य शिरसा रविम्
युगपत्पूजितास्तेन ब्रह्मविष्णु महेश्वराः
तुष्यंति पितरस्तस्य सुकृष्टेनेव कर्षुकाः
अपि नः स कुले कंचिदुद्धरेत्किं खगेश्वर
तृप्यंति पितरस्तस्य गायंति च पितामहाः
पुराणविदमायांतं दृष्ट्वैव सह संस्थिताः
अनुग्रहाय लोकानां श्रद्धायाश्च परीक्षणे
तस्मादतिथिमायांतमग्रे गच्छेत्कृतांजलिः
रूपान्वितं विरूपं वा मलिनं मलिनांबरम् 1.188.
भोजकानां शरीरेषु नित्यं सन्निहितो रविः अधोमुखोर्द्ध्वपादास्ते पतंति नरकाग्निषु
कृमिभिर्भिन्नवदनास्तप्यमानाश्च वह्निना