गोमयादुत्थितः श्रीमान्बिल्ववृक्षोऽर्कवल्लभः
पंकान्युत्पलपद्मानि पुनर्जातानि गोमयात्
गोमूत्राद्गुग्गुलुर्जातः सुगंधिः प्रियदर्शनः
यद्बीजं जगतः किंचित्तज्ज्ञेयं क्षीरसंभवम्
घृतादमृतमुत्पन्नममराणामतिप्रियम्
तदंते चोष्णतोयेन कषायैश्च निरूपयेत्
पूजयेद्बिल्वपत्रैश्च पद्मैर्नीलोत्पलैस्तथा
पायसं दधिभक्तं च वज्रं च मधुना सह
कृत्वा प्रदक्षिणं पश्चात्प्रणिपत्य क्षमापयेत् 1.187.
इह लोके परे चैव सर्वान्कामान्स गच्छति
स्वर्गं नयेत्सधीमांस्तु कुलानामेकविंशतिम्
अंशेन भोजका वीर देवकार्ये नियोजिताः
भुक्त्वा भोगांस्तु विपुलान्भोजको भोगसंमितः
पुष्पं पत्रं फलं तोयं यद्गतं भास्करार्चने
यः पिबेद्भोजने धेनोरदत्ता भानवे पयः
एककालं पिबेत्क्षीरं धेनूनां भास्करस्य तु
प्रत्यूषे यद्भवेत्क्षीरं धेनूनां भास्करस्य तु
यस्तु लोको भजेत्सर्व न देवाय निवेदयेत् तावद्वर्षसहस्राणि नरके पच्यते खग
पूजितं पूज्यमानं वा यः कश्चिच्छृणुयाद्रविम् 1.187.
भास्करं पृजितं दृष्ट्वा सर्वपापैः प्रमुच्यते
पूज्यमानं रविं भक्त्या यः पश्येन्मानवः खग
श्रुत्वानुमोदते यस्तु पूज्यमानं दिवाकरम्
एकजन्मानुगं दानं भक्त्या यच्च निवेदितम् आभूतसंप्लव स्थायि प्रदानं जपजीविनाम्
अत्यल्पमपि यद्दत्तं वाचकाय खगाधिप
न दानमल्पं बहुधा किंचिदस्ति विजानताम्
पात्रे देशे च काले च विधिना श्रद्धया च यत्
तिलार्धमपि यद्वीर दीयते श्रद्धया द्विज
यत्स्नातं ज्ञानसलिलैः शीलभस्मप्रमार्जितम्
जपो दमो यमः पुंसां त्राता संसाग्सागरात् 1.187.
ज्ञानप्लवेन चोपेतं शास्त्रं पापमहार्णवात्