पण्डितोऽपि स मूर्खः स्याच्छक्तियुक्तोऽप्यशक्तिकः
तस्मात्स पंडितः शक्तः स तपस्वी जितेन्द्रियः
यः प्रदद्यान्नृपः कृत्स्नां क्ष्मां धनं कांचनं तथा
यः शृणोति रवेर्धर्मं न्यायतः स च वक्ति च
दत्तगोदोहसंभूतः षडक्षरविधानतः
सुरासुरैर्मथ्यमानात्क्षीरोदात्सागरात्पुरा
नंदा सुभद्रा सुरभी सुमना शोभनावती
सर्वलोकोपकारार्थं देवानां तर्पणाय च
तासामंगानि पुण्यानि षड्रसाः खगसत्तम 1.187.
गोमयं रोचनं मूत्रं क्षीरं दधि घृतं गवाम्
गोमयादुत्थितः श्रीमान्बिल्ववृक्षोऽर्कवल्लभः
पंकान्युत्पलपद्मानि पुनर्जातानि गोमयात्
गोमूत्राद्गुग्गुलुर्जातः सुगंधिः प्रियदर्शनः
यद्बीजं जगतः किंचित्तज्ज्ञेयं क्षीरसंभवम्
घृतादमृतमुत्पन्नममराणामतिप्रियम्
तदंते चोष्णतोयेन कषायैश्च निरूपयेत्
पूजयेद्बिल्वपत्रैश्च पद्मैर्नीलोत्पलैस्तथा
पायसं दधिभक्तं च वज्रं च मधुना सह
कृत्वा प्रदक्षिणं पश्चात्प्रणिपत्य क्षमापयेत् 1.187.
इह लोके परे चैव सर्वान्कामान्स गच्छति
स्वर्गं नयेत्सधीमांस्तु कुलानामेकविंशतिम्
अंशेन भोजका वीर देवकार्ये नियोजिताः
भुक्त्वा भोगांस्तु विपुलान्भोजको भोगसंमितः
पुष्पं पत्रं फलं तोयं यद्गतं भास्करार्चने
यः पिबेद्भोजने धेनोरदत्ता भानवे पयः
एककालं पिबेत्क्षीरं धेनूनां भास्करस्य तु
प्रत्यूषे यद्भवेत्क्षीरं धेनूनां भास्करस्य तु
यस्तु लोको भजेत्सर्व न देवाय निवेदयेत् तावद्वर्षसहस्राणि नरके पच्यते खग
पूजितं पूज्यमानं वा यः कश्चिच्छृणुयाद्रविम् 1.187.
भास्करं पृजितं दृष्ट्वा सर्वपापैः प्रमुच्यते