श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा यज्ञाहुतं तपः
सर्वस्वं जीवितं वापि दद्यादश्रद्धया च यः
एवं श्रद्धामयाः सर्वे मम धर्माः प्रकीर्तिताः
अधिकारस्य प्राप्त्यर्थं महासारविमुक्तिदम्
नानासिद्धिकरं दिव्यं लोकचित्तानुरंजनम्
मन्मानससमुद्रो हि द्विपदोयं विदुर्बुधाः
देवत्रयगुणातीतः सर्वज्ञः सर्ववित्प्रभुः
यथानादिप्रवृत्तोयं घोरः संसारसागरः
व्याधीनां भेषजं यद्वत्प्र तिपक्षस्वभावतः 1.187.
ममाभिधानमन्त्रोयमभिधेयः सदा स्मृतः
वेदो मनोगमे चात्र षडक्षरमंत्रस्थितः
किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तरैः
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्
विधिवाक्यमिदं सर्वं नार्थवादं वचो मम पृच्छस्वेमं प्रणम्याशु वैनतेय महामते
सप्ताश्वतिलकं भक्त्या प्रणम्योवाच भारत
कीदृग्वाक्यमिदं भानोर्वाक्यार्थं ब्रूहि च प्रभो
सप्ताश्वतिलक उवाच विमुक्ताशेषदोषेण सर्वज्ञेन भगेन यत्
यस्मान्मार्तंड नामासौ कथ्यते च मनीषिभिः
सौरवाक्यप्रवक्तारं सूरवत्पूजयेद्गुरुम् 1.187.
सौरधर्माम्बुहस्तेन कस्तेन सदृशो गुरुः ज्ञानामृतेन वै भक्ता कस्तं न प्रतिपूजयेत्
नैव राज्येन महता न चैवार्थस्य राशिभिः
स्वर्गापवर्ग सिद्ध्यर्थं भाषितं यत्तु शोभनम्
रागद्वेषाक्षमाक्रोधकामतृष्णानुसारिणाम्
संस्कृतेनापि किं तेन मृदुलालापसंगिना
यच्छ्रुत्वा जायते पुण्यं रागादीनां च संक्षयः
स्मृतयो भारतं वेदाः शास्त्राणि सुमहांति च
पुत्रदारादिसंसारे नराणां मूढचेतसाम्
इदं श्रेष्ठमिदं ज्ञेयं सर्वं त्वं ज्ञातुमिच्छसि
विज्ञायाक्षरतन्मात्रं जीवितं चातिवंचनम् 1.187.
पण्डितेनापि किं तेन समर्थेन च देहिनाम्