कर्मयज्ञस्तपोयज्ञः स्वाध्यायो ध्याननिर्मितः
एतेषामेव यज्ञानामुत्तमः कतमः स्मृतः
धर्माधर्मप्रभेदाश्च कियन्तः परिकीर्तिताः
खग नारकिणां पुंसामागतानां पुनः क्षितौ
महाभवार्णवाद्घोराद्धर्माधर्माभिसंकुलात्
इत्युक्तो भगवान्भानुः सर्वप्रश्नार्थमादरात्
धर्मं पापहरं पुण्यं शृणु शूर प्रभाषतः
श्रद्धापूर्वः सदा धर्मः श्रद्धामध्यांतसंस्थितः
श्रुतिमंत्ररसाः सूक्ष्माः प्रधानपुरुषेश्वरः 1.187.
कायक्लेशैर्न बहुभिर्न चैवार्थस्य राशिभिः
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा यज्ञाहुतं तपः
सर्वस्वं जीवितं वापि दद्यादश्रद्धया च यः
एवं श्रद्धामयाः सर्वे मम धर्माः प्रकीर्तिताः
अधिकारस्य प्राप्त्यर्थं महासारविमुक्तिदम्
नानासिद्धिकरं दिव्यं लोकचित्तानुरंजनम्
मन्मानससमुद्रो हि द्विपदोयं विदुर्बुधाः
देवत्रयगुणातीतः सर्वज्ञः सर्ववित्प्रभुः
यथानादिप्रवृत्तोयं घोरः संसारसागरः
व्याधीनां भेषजं यद्वत्प्र तिपक्षस्वभावतः 1.187.
ममाभिधानमन्त्रोयमभिधेयः सदा स्मृतः
वेदो मनोगमे चात्र षडक्षरमंत्रस्थितः
किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तरैः
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्
विधिवाक्यमिदं सर्वं नार्थवादं वचो मम पृच्छस्वेमं प्रणम्याशु वैनतेय महामते
सप्ताश्वतिलकं भक्त्या प्रणम्योवाच भारत
कीदृग्वाक्यमिदं भानोर्वाक्यार्थं ब्रूहि च प्रभो
सप्ताश्वतिलक उवाच विमुक्ताशेषदोषेण सर्वज्ञेन भगेन यत्
यस्मान्मार्तंड नामासौ कथ्यते च मनीषिभिः
सौरवाक्यप्रवक्तारं सूरवत्पूजयेद्गुरुम् 1.187.
सौरधर्माम्बुहस्तेन कस्तेन सदृशो गुरुः ज्ञानामृतेन वै भक्ता कस्तं न प्रतिपूजयेत्