शूद्रसक्तं खंडसक्तं ज्ञेयमाश्रयदूषितम्
सहृल्लेखं तु तज्ज्ञेयं पुरीषं तु स्वभावतः
पायसं क्षीरपाकादि तस्मिन्नेव दिने तथा
प्राणात्यये प्रोक्षितं च श्राद्धे च द्विजकाम्यया
प्रेताशुद्धिः सपिंडानां तस्मिन्नेव मृते सति 1.186.
दशाहादित्रिके भागे वर्णशो न भवंति हि
ऊर्ध्वं दशाहादेकाहश्रवणे सति जायते
समानोदकता प्रोक्ता जन्मनाम्नोरपर्यये
आ दंतजन्मनः सद्य आचूडान्नैष्ठिकी स्मृता
तेषामपि तदेकं स्याद्वयोवस्थाप्यपेक्ष्यते
गर्भस्रावे त्रिरात्रेण उदक्या शुध्यते तथा
द्विजानां त्वेवमेव स्यात्पित्रर्थं मातुरेव वा
असपिंडे तु निर्हारात्त्रिरात्रमपि मानवः
शुध्येद्द्विजो दशाहेन जन्महानौ द्वियोनिषु
उक्तशौचं यथान्यायं शारीरं तत्त्वदर्शिभिः 1.186.
तैजसी मार्तिकी वीर वारिशुद्धिः स्मृता तथा
अशुद्धं नैव किंचिद्धि द्रव्यमस्तीति खेचर
स्नानं शौचं च कर्तव्यं द्रव्यशौचादनंतरम्
नैमित्तिकं क्षुराशौचं तेन पापाद्विशुध्यति
कर्मांगं चेति विज्ञेयं षट्प्रकारा समासतः
तदा मृतानां तद्वत्स्यादन्येषां तु यथासुखम्
कलाशिल्पानिसर्वाणि गृह्रीयात्परितुष्टये
शुश्रूषेत पतिं भार्या परितोषं यथा व्रजेत्
वृद्धाऽपुत्रा यदि मृता तदभावे नृपस्य तु
कुर्यादनिर्वृतं भर्तुर्गते सन्निहितेपि वा 1.186.
स्त्री धर्मचारिणी साध्वी मृता दाह्या तथाग्निभिः
स्त्रीणां नियोगो विहितो मरणाद्ब्रह्मचारकम्
तस्माद्धर्मं सदा कुर्यात्कुर्वती स्वर्गमाप्नुयात्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु शुद्धिप्रकरणवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः
सौरधर्मे धेनुमाहात्म्यवर्णनम् मनुष्यलोके संभूताः स्वर्लोके गामिनः परम्