परिधानकृते स्कंधे गृहस्थो योऽर्चयेत्पितॄन्
वनस्थानां खगश्रेष्ठ यतीनां च महामते
हस्तौ प्रक्षाल्य गंडूषं यः पिबेदविचक्षणः
भोजनेष्वेव तिष्ठंति स्वस्ति कुर्वंति ये द्विजाः
दातारो नोभिवर्धंता वेदाः संत तिरेव च
शुद्धिप्रकरणवर्णनम् भास्कर उवाच श्रावण्यां तु बलिः कार्यः सर्पाणां मंत्रपूर्वकः
कार्यः प्रत्यवरोहस्तु मार्गशीर्ष्यां न संशयः
काम्यानां सफलार्थं तु दोषप्राप्त्यर्थमेव च
फलं केचिदुपात्तस्य दुरितस्य प्रचक्षते
नित्यक्रियं तथा चान्ये अनुषंगात्फलं श्रुतिः
चातुर्मास्यमग्निहोत्रं पशुबंधो निरूढकाः
अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः संषोडशी तथा
दया स्यात्सर्वभूतेषु अनसूयाथ मंगलम्
सम्यगुक्तास्तु संस्कारा ब्रह्मप्राप्तिनिमित्तकाः
ऋतामृते च विप्राणामृतं प्रमृतमेव च 1.186.
आजीविकावृत्तयस्तु इत्याद्याः संप्रवर्तिताः
नित्यं शुचिः सुगंधश्च स्नानशीलः प्रियंवदः
नेक्षेतार्कं न नग्नां स्त्रीं न च संस्पृष्ट मैथुनम्
शास्त्रोक्ता यंत्रणा या तु नानुक्तानि व्रतानि च
नित्यानि केचिदिच्छंति काम्यानि च तथापरे
व्रतानि मनसा त्विष्टसंकल्प इति मानसः
अनध्यायं स्वयं सम्यग्वर्जयेत्फलसाधनम्
अशुभानि निमित्तानि उत्पातो विकृतं तथा
अनध्यायाश्च दृष्टार्था अदृष्टार्थास्तथापरे
अभक्ष्यं सर्ववर्णानां शावाशौचं खगाधिप 1.186.
जातिदुष्टं क्रियादुष्टं कालदुष्टं विभूषितम्
लशुनं गृंजनं चैव पलांडुं कवकानि च
नो भुञ्जीत क्रियादुष्टं दुष्टं च पतितैः पृथक्
दधिभक्ष्यविकाराश्च मधुवर्ज्यास्तदिष्यते
सुरालशुनसंस्पृष्टं पेयूषादिसमन्वितम्