नांदीमुखांस्तानुद्दिश्य पितॄन्पंच द्विजोत्तमान्
इत्थं श्राद्धद्वयं कुयाद्वृद्धौ कश्यपनंदन
अथैवं भोजयेच्छ्राद्धे तत्पूर्वं तु प्रवर्तयेत्
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्
पूर्व पात्रे यदन्नं च यच्चान्नमुपकल्पितम्
द्वौ दैवेऽथर्वणौ विप्रौ प्राङ्मुखावुपवेशयेत्
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतुपास्तिलाः 1.185.
दौहित्रं खंडमित्युक्तं ललाटाय प्रजापते
सव्यादंसात्परिभ्रष्टं नाभिदेशे व्यवस्थितम्
पितृदेवमनुष्याणां पूजनं भोजनं तथा
परिधानकृते स्कंधे गृहस्थो योऽर्चयेत्पितॄन्
वनस्थानां खगश्रेष्ठ यतीनां च महामते
हस्तौ प्रक्षाल्य गंडूषं यः पिबेदविचक्षणः
भोजनेष्वेव तिष्ठंति स्वस्ति कुर्वंति ये द्विजाः
दातारो नोभिवर्धंता वेदाः संत तिरेव च
शुद्धिप्रकरणवर्णनम् भास्कर उवाच श्रावण्यां तु बलिः कार्यः सर्पाणां मंत्रपूर्वकः
कार्यः प्रत्यवरोहस्तु मार्गशीर्ष्यां न संशयः
काम्यानां सफलार्थं तु दोषप्राप्त्यर्थमेव च
फलं केचिदुपात्तस्य दुरितस्य प्रचक्षते
नित्यक्रियं तथा चान्ये अनुषंगात्फलं श्रुतिः
चातुर्मास्यमग्निहोत्रं पशुबंधो निरूढकाः
अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः संषोडशी तथा
दया स्यात्सर्वभूतेषु अनसूयाथ मंगलम्
सम्यगुक्तास्तु संस्कारा ब्रह्मप्राप्तिनिमित्तकाः
ऋतामृते च विप्राणामृतं प्रमृतमेव च 1.186.
आजीविकावृत्तयस्तु इत्याद्याः संप्रवर्तिताः
नित्यं शुचिः सुगंधश्च स्नानशीलः प्रियंवदः
नेक्षेतार्कं न नग्नां स्त्रीं न च संस्पृष्ट मैथुनम्
शास्त्रोक्ता यंत्रणा या तु नानुक्तानि व्रतानि च
नित्यानि केचिदिच्छंति काम्यानि च तथापरे