यां दिशं व्रजते सोमस्तां दिशं चावलोकयेत्
क्रिमिभिर्दश्यते यश्च निष्कृतिं तस्य वच्मि ते
गवां तत्र पुरीषेण त्रिकालं स्नानमाचरेत्
अथ नाभ्याः प्रदष्टस्य आपादाद्विनतात्मज
नाभिकण्ठांतरे वीर यदा चोत्पद्यते कृमिः
यदा दशंति शिरसि कृमयो विनतात्मज
मृतान्नं मधु मांसं च यस्तु भुञ्जीत ब्राह्मणः
मातृश्राद्धविधिवर्णनम् आदित्य उवाच रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा
अकृत्वा मातृयज्ञं तु यः श्राद्धं परिवेषयेत्
नांदीमुखाश्च पितरः कथं पूजामवाप्नुयुः
शृणु त्वं खगशार्दूल गदतो मम कृत्स्नशः
पूर्वाह्णे भोजयेद्विप्रानष्टौ सर्वान्प्रदक्षिणान्
ऋजून्वै कृतपान्दत्त्वा सत्येन विधिवत्खग
गन्धपुष्पादिकं सर्वं कुर्याद्विप्रप्रदक्षिणम्
गुडमिश्रं खगश्रेष्ठ सवस्त्रमोदनं परम्
एवं भुक्तेषु विप्रेषु दद्यात्पिंडा न्समाहितः
कृत्वा तु मंडपं वीर चतुरस्रं प्रदक्षिणम् 1.185.
सव्येन पाणिना वीर विधिवत्खगसत्तम
पितुर्मात्रे तु तन्मात्रे निर्वपेद्विधिव त्खग
एवमुद्दिश्य वै मातॄः षट् पिंडान्निर्वपेत्खग नवमं सर्वदैवत्यं भोजयेद्विधिवत्खग
नांदीमुखांस्तानुद्दिश्य पितॄन्पंच द्विजोत्तमान्
इत्थं श्राद्धद्वयं कुयाद्वृद्धौ कश्यपनंदन
अथैवं भोजयेच्छ्राद्धे तत्पूर्वं तु प्रवर्तयेत्
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्
पूर्व पात्रे यदन्नं च यच्चान्नमुपकल्पितम्
द्वौ दैवेऽथर्वणौ विप्रौ प्राङ्मुखावुपवेशयेत्
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतुपास्तिलाः 1.185.
दौहित्रं खंडमित्युक्तं ललाटाय प्रजापते
सव्यादंसात्परिभ्रष्टं नाभिदेशे व्यवस्थितम्
पितृदेवमनुष्याणां पूजनं भोजनं तथा