हस्तदत्तास्तु ये स्नेहाल्लवणव्यंजनादयः
आयसेन तु पात्रेण यदन्नमुपदीयते
अंगुल्या दंतकाष्ठं यत्प्रत्यक्षलवणं च यत्
मुखे पर्युषिते नित्यं भवत्यप्रयतो द्विजः
पुष्पालंकारवस्त्राणि गंध माल्यानुलेपनम्
गृहांते वसते मूर्खो दूरे चास्य गुणान्वितः
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् 1.184.
किं तु यत्ते पुरा देव श्रुतं वाक्यं महात्मनः
गदतो नारदस्यैव शृणु त्वं विबुधाधिप
सत्यनिष्ठं द्विजं यस्तु शुक्लजातिं प्रियंवदम्
अतिक्रम्य नरो घोरं नरकं पातयेत्खग
तस्मान्नातिक्रमेद्राजा ब्राह्मणं प्रातिवेशिकम्
भागिनेयं विशेषेण तथा बंधुं ग्रहाधिप अतिक्रम्य महद्रौद्रं रौरवं नरकं व्रजेत्
ममाप्यवगतं वीर ब्राह्मणं न परीक्षयेत्
सर्वदेवमयं विप्रं सर्वलोकमयं तथा
केवलं चिंतयेज्जातिं न गुणान्विनतात्मज
यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते 1.184.
देवकर्मविनाशेन ब्रह्मस्वहरणेन च वियोन्यां क्षिपते यस्तु वियोनिमधिगच्छति
मा ददस्वेति यो ब्रूयाद्गवाग्निब्राह्मणेषु वै
यत्तु वाचा प्रतिज्ञातं कर्मणा नोपपादितम्
वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते
मधु मांसं सुरां सोमं लाक्षाद्यं लवणं तथा
गुडं तिलं तथा नीलं केशान्गोधूमकान्यवान्
औष्ट्रमाविकदुग्धं च अन्नं मृतकसूतके
गवां शृंगोदके स्नातो महानद्याश्च संगमे
वेदविद्याव्रतस्नातः शुना दष्टो द्विजः खग
तिष्ठन्वाप्यथ वा गच्छञ्छुना दष्टो द्विजः खग 1.184.
व्रतिनश्चापि दष्टस्य त्रिरात्रं क्षपणं स्मृतम्
ब्राह्मणी तु शुना दष्टा सोमे दृष्टं समाचरेत्