आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः
आरूढपतितापत्या ब्राह्मणो वृषलेन च
ब्राह्मणी कुलटा नित्यं स्वकं त्यक्त्वा पतिं खग
उत्पद्यते तु यस्तस्या ब्राह्मणेन महामते
यस्तु प्रव्रजितो भूत्वा पुनः सेवति मैथुनम् पंचगव्येन शुद्धिः स्यादित्याह मम देहकृत्
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमंत्रितम्
ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत्
उपनिक्षेपधर्मेण शूद्रान्नं च पचेद्द्विजः 1.184.
शूद्रान्नं शूद्रसंपर्कं शूद्रेण सह वासनम्
शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः
हस्तदत्तास्तु ये स्नेहाल्लवणव्यंजनादयः
आयसेन तु पात्रेण यदन्नमुपदीयते
अंगुल्या दंतकाष्ठं यत्प्रत्यक्षलवणं च यत्
मुखे पर्युषिते नित्यं भवत्यप्रयतो द्विजः
पुष्पालंकारवस्त्राणि गंध माल्यानुलेपनम्
गृहांते वसते मूर्खो दूरे चास्य गुणान्वितः
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् 1.184.
किं तु यत्ते पुरा देव श्रुतं वाक्यं महात्मनः
गदतो नारदस्यैव शृणु त्वं विबुधाधिप
सत्यनिष्ठं द्विजं यस्तु शुक्लजातिं प्रियंवदम्
अतिक्रम्य नरो घोरं नरकं पातयेत्खग
तस्मान्नातिक्रमेद्राजा ब्राह्मणं प्रातिवेशिकम्
भागिनेयं विशेषेण तथा बंधुं ग्रहाधिप अतिक्रम्य महद्रौद्रं रौरवं नरकं व्रजेत्
ममाप्यवगतं वीर ब्राह्मणं न परीक्षयेत्
सर्वदेवमयं विप्रं सर्वलोकमयं तथा
केवलं चिंतयेज्जातिं न गुणान्विनतात्मज
यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते 1.184.
देवकर्मविनाशेन ब्रह्मस्वहरणेन च वियोन्यां क्षिपते यस्तु वियोनिमधिगच्छति
मा ददस्वेति यो ब्रूयाद्गवाग्निब्राह्मणेषु वै