भोजको यस्तु वै श्राद्धं न करोति खगाधिप
स याति नरकं घोरं तामिस्रं नाम नामतः
अनूरुरुवाच न जानाति दिनं यस्तु न मासं विबुधाधिप श्राद्धं करोतु वै ताभ्यां विधिवद्वत्सरात्मकम्
यथा कुर्यात्खगश्रेष्ठ शृणु कृत्स्नं समासतः
तेन कार्यममायां च श्राद्धं सांवत्सरं खग
विशेषतो भोजनेन यो मां पूज्यते सदा 1.183.
ममेष्टाः पितरो नित्यं गावो विप्राश्च सुव्रत
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे श्राद्धविधिकथनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः
ब्राह्मणधर्मविधिवर्णनम् प्रख्याते प्रत्ययेनैव प्रश्नपूर्वं प्रतिग्रहः
वेद विक्रयनिर्दिष्टं स्त्रिया चावर्जितं धनम्
अनुयोगेन यो दद्याद्ब्राह्मणाय प्रतिग्रहम्
वेदाक्षराणि यावंति नियुज्यन्तेर्थकारणात्
वैश्वदेवेन यो हीन आदित्यस्य च कर्मणः
येषामध्ययनं नास्ति ये च केचिदनग्नयः
अकृत्वा वैश्वदेवं तु यो भुङ्क्ते सोऽबुधः खग
प्रियो वा यदि वा द्वेष्यो मूर्खः पंडित एव च
नैकग्रामीणमतिथिं विप्रसांगतिकं तथा
अचिंत्यः स तु वै नाम्ना वैश्वदेव उपागतः 1.184.
यावच्च प्राप्नुयादन्नं कृताशीः स्नातको द्विजः
ग्रासमात्रा भवेद्भिक्षा चतुष्कालं चतुर्गुणम्
आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः
आरूढपतितापत्या ब्राह्मणो वृषलेन च
ब्राह्मणी कुलटा नित्यं स्वकं त्यक्त्वा पतिं खग
उत्पद्यते तु यस्तस्या ब्राह्मणेन महामते
यस्तु प्रव्रजितो भूत्वा पुनः सेवति मैथुनम् पंचगव्येन शुद्धिः स्यादित्याह मम देहकृत्
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमंत्रितम्
ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत्
उपनिक्षेपधर्मेण शूद्रान्नं च पचेद्द्विजः 1.184.
शूद्रान्नं शूद्रसंपर्कं शूद्रेण सह वासनम्
शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः