एकस्मिन्दिवसे राजन्स च राजा गुणाधिपः
स गत्वा सागरतटे देवीमूर्तिं ददर्श ह
गन्धर्वतनयां सुभ्रूं पूजयित्वा प्रसन्नधीः।। प्रांजलिः पुरतस्तस्थौ तदा देवी समागता
वरं वरय तं प्राह चिरंदेवस्तु चाब्रवीत्
इति श्रुत्वा तु सा देवी विहस्योवाच कामिनम्
तथेत्युक्त्वा गतस्तोये प्लावितो मिथिलां ययौ
गुणाधिपस्तु तच्छ्रुत्वा स्वभृत्येन समन्वितः
गांधर्वेण विवाहेन मां गृहाण गुणाधिप
पुण्यदे त्वं गृहाणाद्य तर्हि त्वां संभजाम्यहम्
स होवाच शृणु त्वं भो मम भृत्यं चिरं सुरम् 3.2.8.
व्रीडिता तु कथां कृत्वा भूपतिं प्राह कामिनी
चिरंदेवं तु संप्राप्य कामांधा त्वां समागता शापिता देवदेवेन नरभोगकरी ह्यहम्
इति श्रुत्वा स भूपालो धर्मात्मा शीलविग्रहः
चिरंदेवस्तु राजन्यो मत्पुत्र इव वर्तते
लज्जिता सा तदा देवी स्नुषेवः च ववर्त वै
इत्युक्त्वा भूपतिं प्राह वैतालो रुद्रकिंकरः
सत्यं धर्मश्च वेताल शृणु तत्कारणं शुभम्
नृपाणां परमो धर्मः सर्वोपकरणं स्मृतः
भृत्येन च कृतं कर्म तच्छृणुष्व वदाम्यहम् सेवा वृत्तिः कृता सर्वा यथान्यैर्न नरैः कृता
पश्चाद्भूपतिना ज्ञातः संकटे बृहदागते 3.2.8.
महाप्रवीणश्च मतस्तमाह स च भूपतिम्
राजन्कामपुरे रम्ये वीरसिंहो महीपतिः
हिरण्यदत्तस्तत्रैव वैश्यो धनमदान्वितः
अवसत्सुखतो नित्यं वसंते कुसुमप्रिया
गच्छन्तीं तां समालोक्य धर्मदत्तात्मजो बली
सा तु तं निर्जने स्थाने प्रोवाच विनयान्विता
विवाहे सति पूर्वं त्वां भजामि दशमेऽहनि
तथेति मत्वा तां त्यक्त्वा निजगेहं समागतः
मदपालाय वैश्याय मणिग्रीवसुताय च
नवमेऽहनि तत्स्वामी गृहीत्वा कामिनीं बलात् 3.2.9.