अतीर्थगमनात्पुंसस्तीर्थे संगाहनात्स्त्रियाः
यौगपद्ये तु तीर्थानां विवाहक्रमशो व्रजेत्
ब्राह्मादिभिर्विवाहैस्तु संस्कृतौ तौ खगाधिप
ब्राह्मो दैवस्तथार्षश्च प्राजापत्यः खगा धिप
प्रशस्ताः क्षत्रियादीनां विप्रादीनां तु मानतः
क्षत्रियस्यापि देया तु प्रतिग्रहविवर्जिता पावनं पुरुषाणां तु विवाहं परिचक्षते
इति श्रीभविष्ये महापुराणे सप्तमीकल्पे ब्राह्मे पर्वणि सूर्यारुणसंवादे विवाहविधिवर्णनं नाम द्व्यशीत्युत्तरशततमोऽध्यायः
श्राद्धविधिकथावर्णनम् भास्कर उवाच भूतपित्रमरब्रह्ममनुष्याणां यथाविधि
सदा सदान कृत्यानां फलार्थमपरे स्थिताः
अतिथेः परितोषाय परिचर्या विधीयते
तिस्रोष्टकास्तु कर्तव्या मध्यावर्ती चतुर्थिका
प्रतिपदि क्रियते यत्तु चतुष्पार्वणमुच्यते
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिंडनम् कर्मांगं नवमं प्रोक्तं वैदिकं दशमं स्मृतम्
अनूरुरुवाच यदेतद्भवता प्रोक्तं श्राद्धं द्वादशधा विभो
नित्यं किमुच्यते श्राद्धं किं वा नैमित्तिकं भवेत्
वैश्वदेवविहीनं तु अशक्तावुदकेन तु
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते 1.183.
कामयुक्तं हि तत्काम्यमभिप्रेतार्थसिद्धये
वृद्धौ यत्क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते
गंधोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्
ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिंडनम्
दर्शे वै क्रियते यत्तु तत्पार्वणमुदाहृतम् गोभ्यश्च क्रियते श्राद्धं तद्गोष्ठश्राद्धमुच्यते
बहूनां विदुषां संपत्सुखार्थं पितृतृप्तये शुद्यर्थमिति तत्प्रोक्तं वैनतेय मनीषिभिः
निषेककाले सोमे च सीमतोन्नयने तथा
क्रियते देवमुद्दिश्य सप्तम्यादिषु यत्नतः तद्यत्नार्थमिति प्रोक्तं प्रदिशेच्च न संशयः
शरीरोपचये श्राद्धमश्ववृद्ध्यर्थमेव च
सर्वेषामेव श्राद्धानां श्रेष्ठं सांवत्सरं मतम् 1.183.
मृतेऽहनि पुनर्यस्तु न कुर्याच्छ्राद्धमादरात्
नाहं तस्य खगश्रेष्ठ पूजां गृह्णामि नो हरिः
तस्माद्यत्नेन कर्तव्यं वर्षेवर्षे मृतेऽहनि