सह धर्मक्रियाहेतोर्दानं समयबंधनात्
प्रदानं यत्र कन्यायाः सहगोमिथुनेन तु
अंतर्वेद्यां समानीय कन्यां कनकमंडिताम्
एते विवाहाश्चत्वारो धर्मकामार्थदायकाः
चतुर्ष्वेतेषु दत्तायामुत्पन्नो यः सुतः स्त्रियाम्
विविक्ते स्वयमन्योऽन्यं स्त्रीपुंसोर्यः समागमः
हत्वा च्छित्त्वा च भित्त्वा च क्रोशंतीं रुदतीं गृहात्
शुल्कं प्रदाय कन्याया हरणं व्यसनादपि 1.182.
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति
एतान्सशुल्कान्सामान्यान्विवाहांश्चतुरो विदुः
प्राप्ते पूर्वविवाहे तु विधिर्वैवाहिकः शिवः
दोषवत्याः प्रदाने तु दातुः षण्णवतिर्दमः
मोक्षोपवर्तनं द्वेषः स्त्रीधनस्य निवर्तनम्
परस्परस्य संबंधान्मोक्षः स्त्रीपुंसयोः स्मृतः
बाधते चेत्पतिर्भार्यां स तु द्वेष इति स्मृतः
भोक्तृस्तु स्वयमेवेदं प्रतिज्ञाहननं भवेत्
आपत्तिसमये जाते स्त्रीधनं भोक्तुमर्हति
जायन्ते यदि नो पुत्रास्तस्यां यत्ने महत्यपि 1.182.
पुत्रलाभात्परं लोके नास्ति हि प्रसवार्थिनः समस्तास्तोषयित्वार्थैः सूर्योढां परमां वरेत्
एका शूद्रस्य वैश्यस्य द्वे तिस्रः क्षत्रियस्य तु
अतीर्थगमनात्पुंसस्तीर्थे संगाहनात्स्त्रियाः
यौगपद्ये तु तीर्थानां विवाहक्रमशो व्रजेत्
ब्राह्मादिभिर्विवाहैस्तु संस्कृतौ तौ खगाधिप
ब्राह्मो दैवस्तथार्षश्च प्राजापत्यः खगा धिप
प्रशस्ताः क्षत्रियादीनां विप्रादीनां तु मानतः
क्षत्रियस्यापि देया तु प्रतिग्रहविवर्जिता पावनं पुरुषाणां तु विवाहं परिचक्षते
इति श्रीभविष्ये महापुराणे सप्तमीकल्पे ब्राह्मे पर्वणि सूर्यारुणसंवादे विवाहविधिवर्णनं नाम द्व्यशीत्युत्तरशततमोऽध्यायः
श्राद्धविधिकथावर्णनम् भास्कर उवाच भूतपित्रमरब्रह्ममनुष्याणां यथाविधि
सदा सदान कृत्यानां फलार्थमपरे स्थिताः
अतिथेः परितोषाय परिचर्या विधीयते