तस्मादव्यञ्जनोपेतामरजस्कपयोधराम्
अन्नं तस्य न भोक्तव्यं वृथा पाको हि स स्मृतः
प्राणायामं त्रिरभ्यस्य घृतं प्राश्य विशुद्ध्यति कृत्वा तस्यां समुत्सर्गमतिकृच्छ्रो विशोधनम्
उद्वाहयेत्सगोत्रां च तनयां मातुलस्य च
असपिण्डा तु या मातुरसगोत्रा च या पितुः
अरुण उवाच दारकर्म किमुक्तं वै यदुक्तं भवता इदम्
तदुक्तं दारकर्मेति द्वाभ्यां योगात्तु मैथुने
नोद्वहेत्कपिलां कन्यां नाधिकांगीं न रोगिणीम् 1.182.
ऋक्षवृक्षनदीनाम्नीं नान्यपर्वतनामिकाम्
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वै पिता
हंसस्वरामेकवर्णां मधुपिंगललोचनाम्
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते
परिवित्तिः परिवेत्ता च यया स परिविद्यते
क्लीबे देशांतरस्थे वा पतिते व्रजिते तथा
खंजवामनकुब्जेषु गद्गदेषु जडेषु च
न श्राद्धं तु कनिष्ठस्य विकुलाय च कन्यका न मंत्राः कारणं तत्र न च कन्या वृता भवेत्
उद्वाहिता तु याकन्या न च प्राप्ता तु मैथुनम्
समाक्षिप्य मतां कन्यां पिता त्वक्षतयोनिकाम् 1.182.
लक्षणं ब्रूहि चैतेषां समासात्तिमिरापह
अलंकृत्यार्हते दानं विवाहो ब्राह्म उच्यते
सह धर्मक्रियाहेतोर्दानं समयबंधनात्
प्रदानं यत्र कन्यायाः सहगोमिथुनेन तु
अंतर्वेद्यां समानीय कन्यां कनकमंडिताम्
एते विवाहाश्चत्वारो धर्मकामार्थदायकाः
चतुर्ष्वेतेषु दत्तायामुत्पन्नो यः सुतः स्त्रियाम्
विविक्ते स्वयमन्योऽन्यं स्त्रीपुंसोर्यः समागमः
हत्वा च्छित्त्वा च भित्त्वा च क्रोशंतीं रुदतीं गृहात्
शुल्कं प्रदाय कन्याया हरणं व्यसनादपि 1.182.
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति
एतान्सशुल्कान्सामान्यान्विवाहांश्चतुरो विदुः