गायत्रो ब्रह्मचारी तु प्राजापत्यो द्वितीयकः
चत्वार आश्रमाः प्रोक्ताः सवेदाः समधर्मकाः
गर्भाधानमृतौ कार्यं हृष्टयोस्तु समन्त्रकम्
सीमन्तः सप्तमे गर्भे षष्ठे वा सप्तमेऽपि वा
जातकर्मादयः सर्वे संस्काराः पुरुषस्य तु
जातकर्मेति तत्प्रोक्तं गुह्यं नाम तदैव तु
धर्मशास्त्रादिसंयुक्तं षष्ठेऽन्नप्राशनं खग
अष्टमे दशमे वापि ब्राह्मणस्योपनायनम् 1.182.
एकादशे द्वादशे वा कार्य क्षत्रियवैश्ययोः
पुरुषस्य तथा चान्य उभयोश्च ब्रवीम्यहम्
तथौपनिषदं चाब्दं गोदानं च सुवर्णकम्
वेदैकदेशपाठस्य उक्तं गृह्ये प्रपञ्चकम्
उभयोर्वा तथा चान्या यथान्यायं यथाश्रुतम्
तोषः परस्परस्येति एतावान्धर्मसंग्रहः
ज्ञात्वा वेदं ब्रह्मचारी ग्रंथार्थान्यान्यथाविधि विद्यान्तेऽभीष्टदानं च अनुज्ञातो गृही भवेत्
निष्कासनं गुरुगृहाद्गृहस्थस्य यथाभवेत्
उद्वहेद्वै ततो भार्यां सवर्णां लक्षणान्विताम्
स्वतन्त्रमन्ये चेच्छन्ति ह्यधिकारं द्विजोत्तमाः 1.182.
उद्वहेत द्विजो भार्यामसमानार्षगोत्रजाम्
अष्टौ विवाहा वर्णानां संस्काराख्या इति श्रुतिः
यस्तु दोषवतीं कन्यामनाख्याय प्रय च्छति
पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता
यस्तु तां वरयेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः
सर्वदोषान्हि विख्याप्य स्त्रिया वा पुरुषस्य वा
गौरी कन्या प्रधाना वै मध्यमा कन्यका स्मृता
रजस्वला नग्निका च देवकन्या च का भवेत्
अव्यञ्जनयुता कन्या कुचहीना च नग्निका
सप्तवर्षा भवेद्गौरी दशवर्षा तु नग्निका 1.182.
व्यञ्जनेन समोपेतां सोमो भुङ्क्ते हि कन्यकाम् ।। तु. - [https://sa.wikisource.org/s/9b ऋग्वेद १०.८५.४०] पयोधरेषु गंधर्वा रजस्यग्निः प्रकीर्तितः
हिनस्ति व्यञ्जनैः पुत्रान्कुलं हन्यात्पयोधरैः