स चतुर्धा निरूप्यस्तु स्वरूपफलसाधनैः
श्रुत्या सह विरोधे तु बाध्यते विषयं विना
स्मृत्या सह विरोधेन चार्थशास्त्रस्य साधनम्
अदृष्टार्थे विकल्पस्तु व्यवस्थासंभवे सति
वेदमूले स्थितं त्वेतदनुष्ठानं क्रिया सती 1.181.
निषेधविधिरूपं तु द्विधा शास्त्रं खगाधिप
पंचप्रकाराः स्मृतय एवं शिष्यव्यवस्थिताः
दृष्टार्था तु स्मृतिः काचिददृष्टार्था तथापरा सर्वा एता वेदमूलाः स्मृता वै ऋषिभिः स्वयम्
अरुण उवाच या एता भवता प्रोक्ताः स्मृतयः पर्वगोपने
दृष्टार्था का मता देव अदृष्टार्था च का भवेत् अनुवादस्मृतिः का स्यादृष्टादृष्टा तु का भवेत्
एवमुक्तो महातेजा भास्करो वारितस्करः
समयानामुपायानां योगो व्याससमासतः
अध्यक्षाणां च निक्षेपः करणानां निरूपणम्
संध्योपास्तिस्तथा कार्या शुनो मांसं न भक्षयेत्
पालाशं धारयेद्दंडमुभयार्था विदुर्बुधाः 1.181.
श्रुतौ दृष्टं यथा कार्यं स्मृतो तत्तादृशं यदि
उक्तो धर्मश्च संक्षेपात्परिभाषा च तद्गता
ब्रह्मावर्तः परो देश ऋषिशस्तस्त्वनंतरः
कृष्णसारस्तु विचरेन्मृगो यत्र स्वभावतः
ब्रह्मादीनां च देवानां ब्राह्मणादेस्तथैव च
साधनत्वं मनुः प्राह वेदमूलं सनातनम्
उपलभ्य यथातत्त्वं स च दर्शितवानृषिः
निष्कामेन सदा वीर काम्यं रूपान्वितेन च कर्मणां फलमाप्नोति न्यायार्जितधनश्च यः
विभागं ब्रूहि देवेंद्र संमानय ग्रहाधिप
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ।। 1.181.
हिमवद्विंध्यधरयोर्यदंतरमुदाहृतम् आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात्
तयोरेवांतरं गिर्योरार्यावर्तं विदुर्बुधाः
शूद्रस्तु यस्मिंस्तस्मिन्वा निवसेद्वृत्तिकर्शितः
विवाहविधिवर्णनम् आदित्य उवाच उक्तं धर्मस्य रूपं तु साधिकारं सनातनम्
ब्रह्मचारी गृहस्थश्च वनस्थो भिक्षुरेव च