भास्कर उवाच स्मृतिधर्मं वेदमूलं शृणु त्वं गरुडाग्रज
धर्मः क्रियात्मा निर्दिष्टः श्रेयोभ्युदयलक्षणः
अस्य शब्दस्यानुष्ठानात्स्वर्गो मोक्षश्च जायते
कस्य भेदास्तु ते पंच ब्रूहि मे देवसत्तम
भास्कर उवाच वेदधर्मः स्मृतस्त्वेक आश्रमाणां स तत्परः 1.181.
वर्णत्वमेकमाश्रित्य अधिकारे प्रवर्तते
वर्णाश्रमाश्रमत्वं च योधिकृत्य प्रवर्तते
यो गुणेन प्रवर्तेत स गुणो धर्म उच्यते
निमित्तमेकमाश्रित्य यो धर्मः संप्रवर्तते
एष तु द्विविधः प्रोक्तः समासादविशेषतः
स चतुर्धा निरूप्यस्तु स्वरूपफलसाधनैः
श्रुत्या सह विरोधे तु बाध्यते विषयं विना
स्मृत्या सह विरोधेन चार्थशास्त्रस्य साधनम्
अदृष्टार्थे विकल्पस्तु व्यवस्थासंभवे सति
वेदमूले स्थितं त्वेतदनुष्ठानं क्रिया सती 1.181.
निषेधविधिरूपं तु द्विधा शास्त्रं खगाधिप
पंचप्रकाराः स्मृतय एवं शिष्यव्यवस्थिताः
दृष्टार्था तु स्मृतिः काचिददृष्टार्था तथापरा सर्वा एता वेदमूलाः स्मृता वै ऋषिभिः स्वयम्
अरुण उवाच या एता भवता प्रोक्ताः स्मृतयः पर्वगोपने
दृष्टार्था का मता देव अदृष्टार्था च का भवेत् अनुवादस्मृतिः का स्यादृष्टादृष्टा तु का भवेत्
एवमुक्तो महातेजा भास्करो वारितस्करः
समयानामुपायानां योगो व्याससमासतः
अध्यक्षाणां च निक्षेपः करणानां निरूपणम्
संध्योपास्तिस्तथा कार्या शुनो मांसं न भक्षयेत्
पालाशं धारयेद्दंडमुभयार्था विदुर्बुधाः 1.181.
श्रुतौ दृष्टं यथा कार्यं स्मृतो तत्तादृशं यदि
उक्तो धर्मश्च संक्षेपात्परिभाषा च तद्गता
ब्रह्मावर्तः परो देश ऋषिशस्तस्त्वनंतरः
कृष्णसारस्तु विचरेन्मृगो यत्र स्वभावतः
ब्रह्मादीनां च देवानां ब्राह्मणादेस्तथैव च