इदं च शांतिकं कुर्याद्बलिं दयात्प्रयत्नतः
इत्येवं शांतिकाध्यायं यः पठेच्छृणुयादपि
स विजित्य रणे शत्रुं मानं च परमं लभेत् 1.180.
व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः
यानुद्दिश्य पठेद्वीर वाचको मानवो भुवि
नाकाले मरणं तस्य न सर्पैश्चापि दश्यते
न चोत्पत्ति भयं तस्य नाभिचारकजं भवेत् ते सर्वे प्रशमं यांति श्रवणादस्य भारत
यत्पुण्यं सर्व तीर्थानां गंगादीनां विशेषतः
दशानां राजसूयानामन्येषां च विशेषतः
गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः
श्रवणादस्य पापेभ्यो मुच्यते नात्र संशयः
इतिहासमिमं पुण्यमग्निकार्यमनुत्तमम्
सूर्यभक्ते सदा देयं सूर्येण कथितं पुरा 1.180.
गरुडेन पुरा प्रोक्तं भोजकानां महात्मनाम्
तैश्चापि कथितं पुण्यं मुनेर्व्यासस्य धीमतः
स्मृतिभेदवर्णनम् कौतुकं पृच्छ ते ब्रह्मन्समासव्यासयोगतः
यथोक्तं भास्करेणेह अरुणस्य महात्मनः
सहस्रकिरणं भानुमुदयस्थं दिवाकरम्
भगवन्देवदेवेश सहस्रकिरणोज्ज्वल
एवं पृष्टस्तु भगवानरुणेन खगाधिपः
भास्कर उवाच स्मृतिधर्मं वेदमूलं शृणु त्वं गरुडाग्रज
धर्मः क्रियात्मा निर्दिष्टः श्रेयोभ्युदयलक्षणः
अस्य शब्दस्यानुष्ठानात्स्वर्गो मोक्षश्च जायते
कस्य भेदास्तु ते पंच ब्रूहि मे देवसत्तम
भास्कर उवाच वेदधर्मः स्मृतस्त्वेक आश्रमाणां स तत्परः 1.181.
वर्णत्वमेकमाश्रित्य अधिकारे प्रवर्तते
वर्णाश्रमाश्रमत्वं च योधिकृत्य प्रवर्तते
यो गुणेन प्रवर्तेत स गुणो धर्म उच्यते
निमित्तमेकमाश्रित्य यो धर्मः संप्रवर्तते
एष तु द्विविधः प्रोक्तः समासादविशेषतः