ये पिशाचा महावीर्या वृद्धिमंतो महाबलाः
पाताले भूतले ये च बहुरूपा मनोजवाः
यस्याहं सारथिर्वीर यस्य त्वं तुरगः सदा 1.180.
अपस्मारग्रहाः सर्वे सर्वे चापि ज्वरग्रहाः
पाताले तु ग्रहा ये च ये ग्रहाः सर्वतो गताः
हरो यस्य सदा वामे ललाटे कंजजः स्थितः
इति देवादयः सर्वे सूर्ययज्ञविधायिनः
जयः सूर्याय देवाय तमोहंत्रे विवस्वते
ग्रहोत्तमाय देवाय जयः कल्याणकारिणे
जयः दीप्तिविधानाय जयः शांतिविधायिने
जयार्क जयदीप्तीश सहस्रकिरणोज्ज्वल
गायत्रीदेहरूपाय सावित्रीदयिताय च
सुमंतुरुवाच श्रेयसे वैनतेयस्य गरुडस्य महात्मनः ।। 1.180.
एतस्मिन्नेव काले तु सुपर्णः पत्रवानभूत्
संपूर्णावयवो राजन्यथापूर्वं तथाभवत्
एवमन्येऽपि राजेंद्र मानवा ये च रोगिणः तस्माद्यत्नेन कर्तव्यमग्निकार्यं विधानतः
करणीयं च राजेंद्र मानवैश्च प्ररोगिभिः
ग्रहो पघाते दुर्भिक्ष उत्पातेषु च कृत्स्नशः
पूजयित्वा प्रसूक्तं तु ध्यात्वा वीरं प्रयत्नतः
चेतसा सुप्रसन्नेन सर्पिषा मधुना सह
इदं च शांतिकं कुर्याद्बलिं दयात्प्रयत्नतः
इत्येवं शांतिकाध्यायं यः पठेच्छृणुयादपि
स विजित्य रणे शत्रुं मानं च परमं लभेत् 1.180.
व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः
यानुद्दिश्य पठेद्वीर वाचको मानवो भुवि
नाकाले मरणं तस्य न सर्पैश्चापि दश्यते
न चोत्पत्ति भयं तस्य नाभिचारकजं भवेत् ते सर्वे प्रशमं यांति श्रवणादस्य भारत
यत्पुण्यं सर्व तीर्थानां गंगादीनां विशेषतः
दशानां राजसूयानामन्येषां च विशेषतः
गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः