मनोहरेण हारेण कंठलग्नेन राजते सूर्यार्चनसमासक्तः करोतु तव शांतिकम्
सुचिरो नाम यक्षेंद्रो मणिकुडल भूषितः
बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः 1.180.
कुक्कुटेन विचित्रेण बहुरत्नान्वितेन तु
यक्षवृन्दसमाकीर्णो यक्षकोटिसमन्वितः
धृतराष्ट्रो महातेजा नानायक्षाधिपः खग
सूर्यभक्तः सूर्यरतः सूर्यपूजापरायणः
विरूपाक्षश्च यक्षेंद्रः श्वेतवासा महाद्युतिः
सूर्यपूजापरो भक्तः कंजाक्षः कंजसन्निभः
अंतीरक्षगता यक्षा ये यक्षाः स्वर्गगामिनः
तद्भक्तास्तद्गमनसः सूर्यपूजासमुत्सुकाः
यक्षिण्यो विविधाकारास्तथा यक्षकुमारकाः
शांतिं स्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् 1.180.
पर्वताः सर्वतः सर्वे वृक्षाश्चैव महर्द्धिकाः
सागराः सर्वतः सर्वे गृहारण्यानि कृत्स्नशः
राक्षसाः सर्वतः सर्वे घोररूपा महाबलाः
पाताले राक्षसा ये तु नित्यं सूर्यार्चने रताः
प्रेताः प्रेतगणाः सर्वे ये प्रेताः सर्वतोमुखाः
पाताले भूतले वापि ये प्रेताः कामरूपिणः
एकचक्रो रथो यस्य यस्तु देवो वृषध्वजः
ये पिशाचा महावीर्या वृद्धिमंतो महाबलाः
पाताले भूतले ये च बहुरूपा मनोजवाः
यस्याहं सारथिर्वीर यस्य त्वं तुरगः सदा 1.180.
अपस्मारग्रहाः सर्वे सर्वे चापि ज्वरग्रहाः
पाताले तु ग्रहा ये च ये ग्रहाः सर्वतो गताः
हरो यस्य सदा वामे ललाटे कंजजः स्थितः
इति देवादयः सर्वे सूर्ययज्ञविधायिनः
जयः सूर्याय देवाय तमोहंत्रे विवस्वते
ग्रहोत्तमाय देवाय जयः कल्याणकारिणे
जयः दीप्तिविधानाय जयः शांतिविधायिने