पश्चिमे तु दिशो भागे पुरी शुद्धवती सदा
तत्र कुन्देदुसंकाशो हरिपिंगल लोचनः
यशोवती पुरी रम्या ऐशानीं दिशमाश्रिता तेजःप्राकारपर्यंता अनौपम्या सदोज्वला
तत्र कुंदेंदुसंकाशश्चांबुजाक्षो विभूषितः ईशानः परमो देवः सदा शांतिं प्रयच्छतु
भूलोके तु भुवर्लोके निवसंति च ये सदा
महर्लोके जनोलोके परलोके गताश्च ये
सरस्वती सूर्यभक्ता शांतिदा विदधातु मे सूर्यभक्त्याश्रिता देवी विभूतिं ते प्रयच्छतु
हरेण सुविचित्रेण भास्वत्कनकमेखला
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनं नामाष्टसप्तत्यु त्तरशततमोऽध्यायः
सौरधर्मवर्णनम् श्रीमन्मृगशिरो भद्रा आर्द्रा चाप्यपरोज्ज्वला
पुनर्वसुस्तथा पुष्य आश्लेषा च तथाधिप
अर्चयंति सदा देवमादित्यं सुरते सदा
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी
अर्चयंति सदा देवमादित्यं सुरपूजितम्
अनुराधा तथा ज्येष्ठा मूलं सूर्यपुरःसरा
अभिजिन्नाम नक्षत्रं श्रवणं च बहुश्रुतम्
भास्करं पूजयंत्येताः सर्वकालं सुभाविताः
धनिष्ठा शतभिषा तु पूर्वभाद्रपदा तथा
उत्तरा भाद्ररेवत्यौ चाश्विनी च महामते 1.179.
सूर्यार्चनरता नित्यमादित्यगतमा नसाः
मेषो मृगाधिपः सिंहो धनुर्दीप्तिमतां वरः शांतिं कुर्वंतु ते नित्यं भक्त्या सूर्यपदांबुजे
वृषः कन्या च परमा मकरश्चापि बुद्धिमान् भक्त्या परमया नित्यं शांतिं कुर्वंतु ते सदा
मिथुनं च तुला कुंभः पश्चिमे च व्यवस्थिताः
शांतिं कुर्वंतु ते नित्यं खखोल्काज्ञानतत्पराः
ऋषयः सप्त विख्याता ध्रुवांताः प्ररमोज्ज्वलाः
कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः
नारदो भृगुरात्रेयो भारद्वाजश्च वै मुनिः
शालंकायन इत्येते ऋषयोऽथ महातपाः
मुनिकन्या महाभागा ऋषिकन्याः कुमारिकाः 1.179.
सिद्धाः समृद्धतपसो ये चान्ये वै महातपाः