सर्वसिद्धिकरा देवी प्रसादपरमास्पदा
स्निग्धश्यामेन वर्णेन महामहिषमर्दनी
आतर्जन्यायतकरा सर्वोपद्रवनाशिनी
अतिसूक्ष्मो ह्यतिक्रोधस्त्र्यक्षो भृंगिरिटिर्महान् सूर्यभक्तिकरो नित्यं शिवं ते संप्रयच्छतु
प्रचंडगणसैन्येशो महाघंटाक्षधारकः
चंडपापहरो नित्यं ब्रह्महत्या विनाशनः करोति च महायोगी कल्याणानां परंपराम्
आकाशमातरो दिव्यास्तथान्या देवमातरः शांतिं कुर्वंतु मे नित्यं मातरः सुरपूजिताः
ये रुद्रा रौद्रकर्माणो रौद्र स्थाननिवासिनः
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः सिद्धिं कुर्वंतु ते नित्यं भयेभ्यः पांतु सर्वतः
ऐंद्रादयो गणा ये तु वज्रहस्ता महाबलाः 1.178.
दिव्यांतरिक्षा भौमाश्च पातालतलवासिनः
आग्नेय्यां ये भृताः सर्वे ध्रुवहत्यानुषंगिणः
विरक्तलोहिता दिव्या आग्नेय्यां भास्करादयः
शांतिं कुर्वंतु ते नित्यं प्रयच्छंतु बलिं मम आदित्याराधनपराः कं प्रयच्छंतु ते सदा
ऐशान्यां संस्थिता ये तु प्रशांताः शूलपाणयः
दिव्यांतरिक्षा भौमाश्च पातालतलवासिनः
ततः सुप्रीतमनसो लोकपालैः सम न्विताः
अमरावती पुरी नाम पूर्वभागे व्यवस्थिता
रत्नप्राकाररुचिरा महारत्नोपशोभिता गोपतिर्गोसहस्रेण शोभमानेन शोभते
ऐरावतगजारूढो गैरिकाभो महाद्युतिः 1.178.
सूर्यज्ञानैकपरमः सूर्यभक्तिसमन्वितः
आग्नेयदिग्विभागे तु पुरी तेजस्वती शुभा
तत्र ज्वाला समाकीर्णो दीप्तांगारसमद्युतिः
आदित्याराधनरत आदित्यगतमानसः
वैवस्वती पुरी रम्या दक्षिणेन महात्मनः
तत्र कुन्देंदुसंकाशो हरिपिंगललोचनः
अन्तकोऽथ महातेजाः सूर्यधर्मपरायणः
नैर्ऋते दिग्विभागे तु पुरी कृष्णेति विश्रुता
तत्र कुन्दनिभो देवो रक्तस्रग्वस्त्र भूषणः
रक्षेंद्रो वसते नित्यमादित्याराधने रतः 1.178.