कपालमुत्तमं देहे तया च्छिन्नं द्वयोस्तदा
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये षष्ठोऽध्यायः
सूत उवाच तस्मिन्काले स वैतालो भृगुवर्यः प्रसन्नधीः
चंपापुरी च विख्याता चम्पकेशो महीपतिः
त्रिलोकसुंदरी नाम कन्या तस्यामजायत
मृगाक्षी कोकिलरवा कोमलांगी महोत्तमा
तस्याः स्वयंवरो जातो नृपा बहुविधास्तदा
इन्द्रो यमः कुबेरश्च वरुणो विबुधोत्तमः
चंपकेशमिदं प्राह शृणु राजन्वचो मम इन्द्रदत्तं च मां विद्धि स्वसुतां मे समर्पय
द्वितीयस्तु तदा प्राह धर्मदत्तं मनोरमम्
तृतीयश्चाह भो राजन्धनपालाय शोभिने मह्यं च स्वसुतां शीघ्रं समर्पय सुखी भव
चतुर्थश्चाह भो राजन्सर्वकलासु कोविदः ।। 3.2.7.
पुण्यार्थमेकरत्नं च होमार्थं द्वितियं वसु
शेषं सुभोजनार्थं च रत्नं नित्यं मयाहृतम्
इति श्रुत्वा वचस्तेषां मोहितो नृपतिस्तदा
सा देवी तु वचः श्रुत्वा व्रीडिता दैवमोहिता
इत्युक्त्वा स तु वैतालो विहस्योवाच भूपतिम्
धर्मदत्ताय सा कन्या योग्या भवति रूपिणी
सर्वशास्त्रेषु निपुणः स द्विजो वर्णतः स्मृतः
कलाज्ञः स तु शूद्रो हि धनुर्वेदी स भूपतिः अतो विवाहिता बाला धर्मदत्ताय शीलिने
विदेहदेशे भूपाल नगरी मिथिलावती
गुणाधिपस्तत्र राजा धनधान्यसमन्वितः
वृत्त्यर्थं मिथिलादेशे तत्र वासं चकार सः
मृगयार्थे वनं प्राप्तस्तत्र शार्दूलमुत्तमम्
व्याघ्र मार्गेण भूपालो वनान्तरमुपाययौ
क्षुत्क्षामकण्ठो नृपतिः श्रमसन्तापपीडितः
इति श्रुत्वा स राजन्यो हत्वा हरिणमुत्तमम्
वांछितं ते ददाम्याशु स होवाच महीपतिम्
त्वया सहस्रमुद्राश्च खादिता मम भूपते
शतमुद्रास्तु मासान्ते मह्यं देहि कुटुंबिने 3.2.8.